पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या स राजा दाहज्वरे संजाते सति चन्दनस्य श्रीखण्डस्याऽऽलेपेनाऽङ्गेषु सर्वतः प्रलेपेन न परिश्रान्तः शान्तिमुपगतः संतापो दाहो यस्यैवंभूतस्सन् तव विक्रमाङ्क- देवस्याऽङ्कपाली आश्लेषः स एव पेयूषममृतं हृदयस्य शैत्यापादकत्वात्त्वत्परि- रम्भणरूपसुधां पुनः पुनः मुहुराचकाङक्षाऽभिलषितवान् ।

                     भाषा

दाहज्वर से पीड़ित वह राजा सर्वाङ्ग में चन्दन के लेप से भी शान्ति न प्राप्त कर तुम्हारे आलिङ्गन रूप अमृत की कामना करने लगा ।

क्रमादर्धप्रबुद्धानि शिशिक्षे वीक्षितानि सः । वासवस्येव दूतेषु कुर्वन्गजनिमीलिकाम् ॥४८॥

              अन्वयः

सः वासवस्य दूतेषु गजनिमीलिकां कुर्वन् इव क्रमात् श्रर्धप्रबुद्धानि वीक्षितानि शिशिक्षे ।

               व्याख्या

स राजा वासवस्येन्द्रस्य 'वासवो वृत्रहा वृषा' इत्यमरः । दूतेषु संदेश- हारकेषु स्वर्गदूतेष्वित्यर्थः । गजस्य हस्तिनो निमीलिकेव निमीलेब निमीलिका तां हस्तिसदृशदृग्व्यापारं कुर्वन्निव विस्तारयन्निवोपेक्षां कुर्वन्निवेत्यर्थः । कमात् कमशोर्धप्रबुद्धान्यर्धविकसितानि वीक्षितानि दर्शनव्यापारान् शिशिक्षे कर्तुमारेभे । शिवसायुज्येच्छुः स नृपः स्वर्गदूतानपि न बहुमन्यते स्म । रोगस्याऽसाध्यत्वान्म-