पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्यद्भिरतिमात्रोष्णै-मूर्ख निश्वासवायुभिः । निवेदयन्तं दुर्वार्ता-वज्रानलमुपस्थितम् ॥३९॥ अन्वयः निर्यद्भिः प्रतिमात्रोष्णैः मुखनिश्वासवायुभिः उपस्थितं दुर्वातवन्नानल निवेद्यन्तम् (दूतं पप्रच्छत्यन्वयः । ठयारख्या निर्यद्भिर्निगच्छद्भिरतिमात्रोष्णैः प्रकामोष्णैर्मुखस्य वदनस्य निश्वासवा युभिः श्वसनपवनैरुपस्थितं विद्यमानं दुर्वातऽशुभवृत्तान्त एव वज्राग्निः कुलिश वन्हिस्तं निवेदयन्तं प्रकटयन्तम् (दूतं पप्रच्छेति सम्बन्धः ।) मुखनिश्वासवायु करणकदुर्वातरूिपवज्राग्निप्रकटनक्रियाया दूते उत्प्रेक्षितत्वादुत्प्रेक्षा रूपकानु प्राणिता । भाषा विद्यमान दुर्वाता रूपी वज्राग्नि को अपने मुख से हाँपने में निकलने वाले अत्यन्त गरम २ श्वास रूपी वायु से प्रकट करने वाले (राजदूत को पूछा ।) अग्नि के संसर्ग से श्वासवायू का गरम हो जाना स्वाभाविक है । ककुभां भर्तृभक्तानां पृच्छन्तीनां नृपस्थितिम् । विद्रवन्तमिवाभान्तमत्यन्तत्वरितैः पदैः ॥४०॥ अन्वयः नृपस्थितिं पृच्छन्तीनां भर्तृभक्तानां ककुभाम् अत्यन्तत्वरितैः पदैः विद्रवन्तम् इव श्राभान्तम् (दूतं पप्रच् ।)