पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजा की खबर पूछने वाली, अपने स्वामी की भक्त दिशाओं की तरफ़ अत्यन्त वेग से भाग चलने वाले (दूत को देखा ।) अनर्थवार्तावहन—महापातकदूषितम् । गणयित्वेव धैर्येण सर्वथापि निराकृतम् ।॥४१॥ अन्वयः अनर्थवार्तावहनमहापातकदूषितं गणयित्वा इव सर्वथा अपि धैर्येण निराकृतं (दूतं पप्रच्छ ।) व्याख्या अनर्थवार्ताया अनिष्टवृत्तान्तस्य वहनेन प्रापणेन धारणेन वा यन्महापातकं महापापं तेन दूषितं कलुषितहृदयं गणयित्वेव विदित्वेव धैर्येण धीरतया कत्रा सर्वथाऽपि सर्वप्रकारेणाऽपि निराकृतं परित्यक्तं (दूतं पप्रच्छ।) अनिष्टवृत्तान्तधारण महापापमेनं विगणय्य धैर्येणाऽपि त्यक्तसङ्गमित्यर्थः । अत्रोत्प्रेक्षालङ्कारः भाषा अशुभ वार्ता को धारण करने के पाप से मानों दूषित समझ कर धैर्य से एकदम परित्यवत अर्थात् अधीर (दूतको पूछा ।) । कृतप्रणाममासन्नमथ तं राजनन्दनः । कुशलं तातपादानामिति पप्रच्छ वत्सलः ॥४२॥