पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ददर्श राजधानीतः प्रधानं दूतमागतम् ॥३७॥ अन्वयः सः तत्क्षणात् राजधानीतः आगतं परिम्लानमुखं संमुखपातिनं प्रधानं स विक्रमाङ्कदेवस्तत्क्षणात् तस्मिन्नेव समये राजधानीतः कल्याणपुरत आगतं प्राप्तं परिम्लानं ग्लानिपरीतं मुखमाननं यस्य तं चिन्तितवदनमित्यर्थः । संमुखमग्रे पतति समागच्छतीति संमुखपाती तं संमुखमागच्छन्तं प्रधानं विशिष्ट दूतं संदेशहरं ‘स्यात्संदेशहरो दूतः' इत्यमरः । ददर्श दृष्टवान् । भाषा उसी समय उसने कल्याणपुर से आए हुए उदास मुख वाले सामने उपस्थित मुख्य दूत को देखा । अथ कुलकेन दूतं वर्णयति कविः अप्रियावेदने जिह्वा-मवगम्य पराङ्मुखीम् । कथयन्तमिवानथे श्वासैरत्यर्थमायतैः ॥३८॥ अन्वयः अप्रियावेदने जिह्वां पराङ्मुखीम् अवगम्य अत्यर्थम् आयतैः श्वासैः अनर्थ कथयन्तम् इव (तं राजनन्दनः पप्रच्छ ।) इति द्विचत्वारिंशत्तमेन श्लोकेन सम्बन्धः ।