पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रव्याख्या यद्यस्मात् कारणादवगाहितानि विलोडित्तानि निःशेषशास्त्राणि सकलागमा स्तैर्निर्मला विशदा धीर्बुद्धिर्यस्य सः ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । निर्मथितसकलशास्त्रतत्वतथा विशदप्रज्ञोऽपि असौ कुमारो विक्रमाङ्कः देवोऽकारणं कारणरहितं यथा स्यात्तथाऽधीरतां चाञ्चल्यं प्राप्तः । सचिन्तो भूदित्यर्थः । यदित्यनेन पूर्वश्लोकार्थः सम्बद्यते । भाषा इस कारण से सम्पूर्ण शास्त्रों के अध्ययन से निर्मल बुद्धि वाला भी वह राजकुमार निष्कारण ही अधीर हो उठा । सर्वस्वदानमालोच्य दुर्निमित्तप्रशान्तये । श्रप्रयाणमसौ चक्रे ततः कृष्णानदीतटे ॥३६॥ अन्वयः ततः असौ दुनिमित्तप्रशान्तये सर्वस्वदानम् आलोच्य कृष्णानदीतटे अप्रयाणं चके ततस्तदनन्तरमसौ प्रसिद्धः कुमारो दुनिमित्तस्य वामाक्षिस्फुरणरूपदुश्शाकुनस्य प्रशान्तये निवारणाय सर्वस्वस्य विजयापहृतानां सकलवस्तूनां दानं पात्रेषु वितरणं समालोच्य निर्धार्य कृष्णानद्यास्तटे तीरेऽप्रयाणमवस्थानं चक्रे । तत्रैद स्थितोऽभू दित्यर्थः ।