व्याख्या
यद्यस्मात् कारणादवगाहितानि विलोडित्तानि निःशेषशास्त्राणि सकलागमा स्तैर्निर्मला विशदा धीर्बुद्धिर्यस्य सः ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । निर्मथितसकलशास्त्रतत्वतथा विशदप्रज्ञोऽपि असौ कुमारो विक्रमाङ्कः देवोऽकारणं कारणरहितं यथा स्यात्तथाऽधीरतां चाञ्चल्यं प्राप्तः । सचिन्तो भूदित्यर्थः । यदित्यनेन पूर्वश्लोकार्थः सम्बद्ध्यते ।
भाषा
इस कारण से सम्पूर्ण शास्त्रों के अध्ययन से निर्मल बुद्धि वाला भी वह राजकुमार निष्कारण ही अधीर हो उठा ।
<poem>सर्वस्वदानमालोच्य दुर्निमित्तप्रशान्तये । अप्रयाणमसौ चक्रे ततः कृष्णानदीतटे ॥३६॥</poem>
अन्वयः
ततः असौ दुर्निमित्तप्रशान्तये सर्वस्वदानम् आलोच्य कृष्णानदीतटे अप्रयाणं चके।
व्याख्या
ततस्तदनन्तरमसौ प्रसिद्धः कुमारो दुनिमित्तस्य वामाक्षिस्फुरणरूपदुश्शाकुनस्य प्रशान्तये निवारणाय सर्वस्वस्य विजयापहृतानां सकलवस्तूनां दानं पात्रेषु वितरणं समालोच्य निर्धार्य कृष्णानद्यास्तटे तीरेऽप्रयाणमवस्थानं चक्रे । तत्रैद स्थितोऽभू दित्यर्थः ।