पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जयसिंहाऽपरनामधेयं स्वाऽनुजं सिंहदेवमपि निनाय । अथैतद्वृत्तमसहमानश्चा- लुक्येश्वरः सोमेश्वरो विक्रमादित्यस्य पृष्ठतः पुष्कलं बलं व्यसर्जयत् । ततश्च निर्दयप्रहरणपरं तद्वलमनिच्छन्नपि महाविक्रमो विक्रमश्चूर्णितं चकार । उत्तुङ्ग- शक्तिः स तुङ्गभद्रां प्राप, युद्धेच्छया चोलसम्मुखवर्ती च वभूव । एवं च स कञ्चित्कालं यावद्वनवासमण्डलमध्युवास । स्वबलवाद्यनिनदैर्मलयदेशभूभुजा- मात्मपूर्वविक्रमं स्मारयन्विक्रमः पुरत उच्चचाल । तस्मिन्नवान्तरे कोङ्कणदेश- नरेशो | जयकेशी प्रार्थितादप्यधिकं धनं तस्मै समर्पयामास । आलुपपालकश्च तदन्तिके रणचापलं त्यक्त्वा समृद्धि चाऽऽप । ततः स रणेच्छया चोलाँश्चचाल । विक्रमबलाऽतिक्रमाऽक्षमश्चोलभूपालः सन्ध्यर्थं स्वसन्देशहरं विक्रमान्तिकं प्राहिणोत् । स दूतो विक्रमं बहुशः स्तुत्वा चोलभूपालो भवते स्वकुमारीं समर्प- यितुमिच्छती" ति निवेदयामास । विक्रमोऽपि तत्प्रार्थनामभ्युपयञ्छंस्तुङ्गभद्रानदी- तटमगात् । ततश्चोलपतिः स्वकन्यां । विक्रमाय समर्पितवान् ररक्ष चैवं विक्रमबलाक्रमणाच्चोलाऽचलाम् ।

षष्ठसर्गे-

अथ चोलपतिः कन्यादानानन्तरं जामातुरभ्यनुज्ञां समवाप्य चचाल । ततो विक्रमादित्यः किञ्चित्कालाऽनन्तरं दैवहतकस्य दुर्विलसिताद्रणाङ्गणे चोलपतेः सुरलोकप्रयाणमाकर्णयत् । परिदेवनादनु स चोलराजकुमारे श्रियमभिषेक्तुं काञ्चीं प्रति समुच्चचाल । तत्र च विक्रमादित्यं विलोक्य काञ्चीकामिन्यो बहुविधाः शृङ्गारचेष्टाश्चक्रुः । ततश्च स दुष्टवर्ग खर्वतेजसं विधाय चोलेन्द्र- निर्मापितं गाङ्गकुण्डपुरं प्रययौ । तत्र च स परिपन्थिसैन्यनिधनपूर्वकं चोल- राजकुमारं राजपदमधिरोप्य मासपर्यन्तं तत्राऽवस्थाय भूयोऽपि तुङ्गभद्रां वव्राज । दिष्टाऽनिष्टतया कतिषुचिद्दिवसेषु गतेषु राजिगाऽभिधानः वेङ्गिनाथः प्रकृति- विरोधहतस्य तस्य विक्रमश्यालकस्य राज्यमपाजहार । कुटिलमतिरसौ राजिगः