स्वशरणागतं मालवाधीशं निष्कण्टकं राज्ये समस्थापयत् । बहवो भूपालाः कन्यकाप्रदानच्छलतोऽस्य सर्वस्वदानं चक्रुः ।
चतुर्थसर्गे-
विक्रमाङ्कदेवो दिग्विजयार्थं प्रयाणमकरोत् । तद्गजा मलयं मलयजरहि- तमकुर्वन् । स केरलदेशं जीवितेशदेशं प्रापयत्। तद्भयात्सिंहलभूपालस्तच्छरणं जगाम । एवञ्च विक्रमाङ्कदेवो गाङ्गकुण्डपुरं चोलदेशं च जिगाय । वेङ्गि- भूपालं चक्रकोटपतिञ्च स निर्वीयं चकार । एवञ्चाऽपराक्रान्तो महाविक्रान्तो विक्रमाङ्कदेवः कृतकार्यः सन्ननिवार्यदैवगत्या स्वदेशप्रत्यावर्तनकाले बहुविधान्यप- शकुनानि प्रत्यक्षीचकार । ततश्च स तच्छान्त्यर्थ सर्वस्वदानमालोच्य कृष्णा- नदीतटे विशश्राम । तस्मिन्नेव समये कल्याणपुरात्समायातो दूत एतादृशीमभव्यां वातमिश्रावयत्–“राजकुमार ! भवज्जनको भावत्कं पाण्डयचोलसिंहल- भूपालविजयं समाकर्ण्याऽमन्दमानन्दसन्दोहमन्वभूत् । परं नियतिदुर्गतिपरवशः स दाहज्वराभिभूत्या दक्षिणापथत्रिपथगां तुङ्गभद्रां प्राप्य सुवर्णदानपूर्वकं कण्ठदघ्ने तत्तोये प्रविश्य चन्द्रशेखरपुरं प्रययौ" इति । इत्थञ्चाऽकाण्ड एव जनककैलाश- वासमाकर्ण्य परितप्तः स भृशं परिदेवयामास । अथ स संस्थितस्य तातस्योत्तर- क्रियां यथाविधि विधाय सत्वरमग्रजालोकनोत्कण्ठया कल्याणप्रयाणमुद्दिश्य जगाम ।।
ततः स कियद्भिरपि दिवसैः कल्याणपुरीं समासाद्याऽग्रे समागतेनाऽग्रजन्मना सम्मानितस्तेनैव समं समानसक्लेशं नरेशप्रासादं विवेश । तदनु तावुभावकृत्रि- माभिर्मिथ: प्रणयवृत्तिभि: कतिचिद्वासरानयापयताम् । गुणगणज्येष्ठोऽपि स ज्यायाँसं तातप्रतीकाशं प्रतीक्ष्यं समीक्ष्य समर्पयामास च तस्मै दिग्विजयोपार्जितं समस्तं वस्तजाम । ततश्चाऽनिवार्यया सोमेश्वरो