पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मल्लापरनामक आहवमल्लांभिधानो विश्रुताऽबदानो नरनायकः समजायत । अनुपमविक्रमः स नरपालश्चोलदेशं मालवराजधानीं धाराञ्च जिगाय । डाहलपतिं कर्णञ्च विवर्ण चकार । एवमेव बहुष्वाहवेषु मल्लः स आहवमल्लो द्रविडप्रकाण्डं बीररसस्याऽभाजनं विदधे, चोलराज्यश्रियञ्चाऽऽचकर्ष ।

द्वितीयसर्गे-

प्रक्रान्तविक्रान्तचरित आहवमल्लदेवः सर्वाः ककुभो विजित्य गुणिगण- मण्डितां कल्याणपुरीमात्मराजधानीरूपेण विदधे । समधिगतसम्पदतिशयः पूरितार्थिसार्थमनोरथोऽपि स भूपतिस्तनयाभावेन दूयमानमानसोऽभूत् । ततः स देव्याः समं विमृश्य सकलराज्यकार्यभारं मन्त्रिषु विनिवेश्य तनुजाऽऽसादनार्थ शङ्करानुष्ठाननिष्ठो बभूव । जातुचिद्विभाते चन्द्रशेखरपरिचरणपरो नरवरः स इमामशारीरिणीं गिरमाकर्णयति स्म–“भो नरपते ! कृतं तपसा । भगवान्पार्व- तीपतिस्त्वयि प्रसादाभिमुखः संवृत्तः । इयं त्वदीया दयिता तनयत्रितयसमन्विता । भविष्यति । तत्राऽपि शिवप्रसादाद्द्वितीयस्तनयोऽतुलवलो भविता" इति । अनन्तरं नरदेवो ब्रतपारणाविधिं विदधे । ततश्च शुभे मुहूर्ते देवी सुतमेक- मसूत, यो नाम्ना सोमेश्वरः संवृत्त । ततो माङ्गलिके लग्ने , देव्या गर्भतो लोकोत्तर-गुणगणसमलङकृतः समस्तशुभलक्षणलक्षित: शिवप्रसादीकृतो द्वितीय- स्तनयः समजनि । निरतिशयहर्षप्रकर्षपरवशो महाराजश्चाऽऽत्मजस्य जातकर्मादि- संस्कारं सम्पादयामास ।

तृतीयसर्गे-

नवप्रसूतः प्रभूतशुभलक्ष्मपूरितो राजसुत आख्यया विक्रमाङ्कदेव इति ख्यातिमभजत् । स च बालोऽनितरसाधारणगुणान्बाल्य एव प्रादर्शयदकरोच्च