आक्रान्तरिपुचक्रेण तेन चक्रकोटपतेः चित्रशालासु लिखिताः दन्तिनः अमुच्यन्त ।
व्याख्या
आक्रान्तं समाक्रान्तं विजितमित्यर्थः । रिपुचक्रं शत्रुचक्रवालं येन तेन विजितारिसमूहेन तेन विक्रमाङ्कदेवेन चक्रकोटनामकस्थानस्य पतिः स्वामी तस्य क्रकोटदेशाधिपस्य चित्राणां शालासु गृहेषु चित्रमन्दिरेषु लिखिताश्चित्रिता न्तिनो गजाः परं केवलममुच्यन्त मुक्ताः । चक्रकोटपतेस्सकला गजाः स्वायत्तीकृता इत्यर्थः । अत्र केवलं चित्रलिखिता गजा एव त्यक्ता इत्युक्त्या सर्वाऽपि गजसेना स्वायत्तीकृतेति प्रतीत्याऽर्थापत्तिरलङ्कारः ।
भाषा
शत्रु समूह को जीतने वाले उस राजकुमार विक्रमाङ्कदेव ने चक्रकोट के राजा की चित्रशाला में चित्रित हाथियों को ही केवल छोड़ दिया अर्थात् उसके ब हाथी ले लिये ।
कृतकार्यः परावृत्य कियत्यप्यध्वनि स्थितः ।
अथ गम्यत्वमरतेरकस्मादेव सोऽगमत् ॥३१॥
अन्वयः
अथ कृतकार्यः सः परावृत्य कियति अध्वनि अपि स्थितः (सन्) कस्मात् एव अरतेः गम्यत्वम् अगमत् ।
व्याख्या
अथ दिग्विजयनन्तरं कृतं कार्यं दिग्विजयरूपजकृत्यं येन सः सम्पादितोद्देश्यः