पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुधिरेण ‘शोणितेऽम्भसि कीलालम्' इत्यमरः । कलुषीकृतो मलिनीकृ तोऽपवित्रीकृत इत्यर्थः । पयोनिधिस्समुद्रोऽगस्त्यमुनेः कुभ्भजमुनेस्संत्रासमाच मनत्रयेणैव सर्वसमुद्रजलरिक्तीकरणरूपं भयमत्याज्यत तद्भयान्निवृत्तमकारयत । रक्तमिश्रितमपवित्रं समुद्रजलं कुम्भयोनिः कदापि न पास्यतीति धिया निर्भयत्वमिति भावः । भाषा उसने केरलदेश के राजाओं को मारकर उनके रक्त से समुद्रजल को मिश्रित कर अतएव अपवित्र कर समुद्र को अगस्त्य मुनि के भय से छुड़ा दिया । अर्थात् अगस्त्य मुनि अब रक्त मिश्रित अपवित्र जल को कदापि न पीएँगे इसलिये समुद्र को अब उनका भय न रहा । उदरालोडनोद्भ्रान्त-दन्तसंक्रान्तपन्नगैः । पाथोधेरन्त्रमालेच तद्दन्तिभिरकृष्यत ॥१९॥ अन्वयः उद्रालोडनोद्भ्रान्तदन्तसंक्रान्तपन्नगैः तद्दन्तिभिः पाथोधेः अन्त्रमाला इव अकृष्यत । व्याख्या उदरस्य समुद्रकुक्षेरालोडनान्मन्थनादुद्भ्रान्ता भयन्त्रस्ता दन्तेषु रदनेषु संक्रान्ताः संलग्नाः पन्नगाः सप येषां तैस्तस्य विक्रमाङ्कदेवस्य दन्तिभिः करिभिः पाथोधेः पयोधेरन्त्रमाला इव पुरीतच्छेणिरिव ‘अन्त्रं पुरीतत्' इत्यमरः । आन्त्रमा