पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिशा रूपी भीतों पर उसके यशरूपी सफेदी की कूची के फिरनं से द्रविड़ देश की ललनाओं के कपोलस्थल सफेद पड़ गये, यह एक आश्चर्य की बात है। अर्थात् द्रविड़ देश के वीरों को मारडालने से उनकी स्त्रियों के कपोलस्थल दुःख से अथवा केसरिया चन्दन आदि का प्रयोग न होने से सफेद पड़ गये थे । गलितोतुङ्गश्रृंङ्गत्वाद् द्विषां तेन जिगीषुणा । अपि लूनशिरस्केव राजधानी व्यधीयत ॥२३॥ अन्वयः जिगीषुणा तेन िद्वषां राजधानी अपि गलितोतुङ्गश्धृङ्गत्वात् लूनशिरस्का इध व्यधीयत । व्याख्या जेतुमिच्छुजिगीषुस्तेन जिगीषुणा विजयैषिणा तेन बिक्रमाङ्कदेवेन द्विषां शत्रूणां ‘द्विड्विपक्षाहितामित्र दस्युशात्रवशत्रवः' इत्यमरः । राजधानी धीयन्ते राजानोऽस्यामिति धानी, राज्ञो धानी राजधानी प्रधानपुरी अपि गलितानि भग्नानि सन्ति पतितान्युत्तुङ्गान्यत्युच्चानि शृङ्गाणि शिखराणि ‘कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । यस्याः सा तस्या भावो गलितोत्तुङ्गशृङ्गत्वं तस्मात् कारणाल्लूनं च्छित्रं शिरो मस्तक यस्याः सा लूनशिरस्केव ‘शेषाद्विभाषेति कप्’ व्यधीयत सम्पादिता । तस्या अत्युच्चप्रासादशिखरपतनात् राजधानी छिन्नमस्तकेव भाति स्मेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा विजय की इच्छा रखने वाले विक्रमाङ्कदेव ने शत्रु की राजधानी के ऊँचे २ शिखरों के टूट कर नीचे गिर पड़ने के कारण, मानों उसे भी सिर कटी