विष उसके पास होता तो उसके खाने से शीघ्र मृत्यु हो जाती ।
विद्रमेषु समुद्रस्य कान्ताबिम्बौष्ठकान्तिषु ।
अराजन् राजपुत्रस्य प्रीतिपात्रीकृत दृशः ॥१७॥
अन्वयः
समुद्रस्य कान्ताबिम्बौष्ठकान्तिषु विदुमेषु राजपुत्रस्य प्रीतिपात्रीकृताः दृशः अराजन्।
व्याख्या
समुद्रस्य पयोधेः कान्तानां रमणीनां बिम्बफलवद्रक्तवर्णा ओष्ठा अध रास्तेषां कान्तिरिव कान्तिर्येषु तेषु विद्रुमेषु प्रवालेषु ‘अथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम्' इत्यमरः । राजपुत्रस्य विक्रमाङ्कदेवस्य प्रीतेः स्नेहस्य पात्रीकृता भाजनीकृताः प्रेमाद्र इत्यर्थः । दृशो नयनान्यराजन् शुशुभिरे लग्नानीति भावः ।
भाषा
स्त्रियों के बिम्ब फल के ऐसे लाल ओठों के समान दिखाई पड़ने वाले समुद्र के पूँगों पर उस राजपुत्र की प्रेम भरी दृष्टि पड़ी ।
तेन केरलभूपाल-कीलालकलुषीकृतः ।
अगस्त्यमुनिसंत्रासमत्याज्यत पयोनिधिः ॥१८॥
अन्वयः
तेन केरलभूपालकीलालकलुषीकृतः पयोनिधिः अगस्त्यमुनिसंत्रासम् अत्याज्यत्।