व्याख्या
तस्य विक्रमाङ्कदेवस्य दन्तिनो हस्तिनः ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । तेषां पदानां चरणानां संघट्ट आमर्दस्तेन त्रुटन्ति स्फुटन्ति मौक्तिकानि मुक्ताफलानि यासु ताः शुक्तयो मुक्तास्फोट 'मुक्तास्फोटः स्त्रियां शुक्तिः' इत्यमरः । यस्मिन् सोऽस्बुधिः सागरो भयेन त्रासेनोद्भ्रान्तं विह्वलं यद्धृदयं तस्य स्फुटनं विच्छेदस्तस्य भ्रमं भ्रान्ति चक्रे । शुक्तिस्फोटजनित शब्देन समुद्रस्य हृदयं स्फुटति किमिति प्रेक्षकाणां भ्रान्तिर्जातेति भावः । अत्र भ्रान्तिमानलागरः ।
भाषा
उसके हाथियों के पांव के नीचे दब कर टूटने वाली मोतियों की सीपों से अर्थात् उनके शब्दों से, प्रेक्षकों को, भय से विह्वल समुद्र का हृदय ही तो नहीं फट रहा है, ऐसा भ्रम हुआ।
अन्विष्यन्मरणोपायं दुःखात्तत्सैन्यलुण्ठितः ।
कालकूटं हरग्रस्तं शुशोच पयसां निधिः ॥१६॥
अन्वयः
तत्सैन्यलुण्ठितः पयसां निधिः दुःखात् मरणोपायम् अन्विष्यन् हरप्रस्तं कालकूटं शुशोच ।
व्याख्या
तस्य विक्रमाङ्कदेवस्य सैन्यैश्चमूभिर्गुण्ठितः स्वरत्नापहरणैरार्मादतः पयसां