पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुरभीणि सुगन्धीनि ‘सुरभिप्रणतर्पणः । इष्टगन्धः सुगन्धिः स्यात्' इत्यमरः ।

        श्वसितान्येवाऽनिलास्तैस्तदीयाङ्गनासुगन्धिश्वसितानिलैर्गुहा दर्यश्चन्दनवायूनां
        श्रीखण्डानिलानां बीजार्थं बीजसंरक्षणाय पूरिता इव परिपूर्णीकृता इव ।
        गजकृतसमस्तचन्दनवृक्षनाशेऽपि आगामिनि समये कान्तासुरभिश्वसितरूपबीजैः
        प्रभूताश्चन्दनवायवस्समुत्पत्स्यन्तीति धिया मलयेन तासां श्वसितानां गुहासु
        बीजरूपेण संग्रहः कृत इति भावः । श्वसितानिलैर्गुहापरिपूरणे चन्दनवायुरूप
        बीजसंरक्षणस्य फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा, तया च तदीयाङ्गनानां श्वसिताऽ
        निलैस्सह मलयपवनानामुपमा गम्यते ।
                               भाषा
           मलयाचल ने, विक्रमाङ्कदेव के हाथियों द्वारा चन्दन वृक्षों का समूल नाश
        कर दिये जाने पर, चन्दन की सुगन्ध से युक्त वायुओं का बीज बनाए रखने
        के लिये मानों विक्रमाङ्कदेव की सेना में की अङ्गनाओं के सुगन्धित सांसों को
        गुफाओं में भर लिया ।


                 == गजोन्मूलितनिक्षिप्त-चन्दनदुमसम्पदः ।
                 स मूल्यमिव रतानि जग्राह महतोऽम्बुधेः ॥९॥ ==
                             अन्वयः
           सः गजोन्मूलितनिक्षिप्तचन्दनद्रुमसम्पदः महतः अम्बुधेः रत्नानि
        मूल्यम् इव जग्राह ।
                               व्याख्या
        स विक्रमाङ्कदेवो गजैर्हस्तिभिः पूर्वमुन्मूलिता उत्पाटिलाः पश्चान्निक्षिप्तास्सं