पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा

       बड़वानल से तपे समुद्र् में चन्दन के रस से सुवासित, मलयाचल की नदियां
    शीतोपचार का काम करने लगीं ।


        == सखीव निखिलैस्तस्य सेनासीमन्तिनीजनैः ।
              प्रीत्या मलयवायूनां जन्मभूमरदृश्यत ॥७॥ ==
                     अन्वयः
      तस्य निखिलैः सेनासीमन्तिनीजनैः  प्रीत्या सखी इव मलयवायूनां
   जन्मभूमिः अद्दश्यत ।
                       व्याख्या
       तस्य विक्रमाङ्कदेवस्य निखिलैस्समस्तैः सेनायां सेनया सह समागताः
   सीमन्तिन्योऽङ्गनास्तासां जनस्समूहस्तैः प्रीत्या प्रेम्णा सखीव प्रेयसीव मलयवायूनां
   दक्षिणानिलानां जम्मभूमिर्मलयपर्वतोऽदृश्यत परिवीक्षिता । संयोगावस्थायां
  सुखप्रदानां दक्षिणानिलानां जन्मभूमिरङ्गनाभिः सखीव प्रीत्या दृष्टेति भावः ।
   
                       भाषा
   उसकी सेना में की अङ्गनाओं ने दक्षिणानिल की जन्म भूमि मलयाचल को
 (संयोगावस्था में दक्षिणानिल के सुखद होने के कारण) सखी के समान प्रेम
  से देखा ।


        == मलयेन तदीयत्री-सुरभिश्वसितानिलैः ।
              गुहाश्चन्दनवायूनां बीजार्थमिव पूरिताः ॥८॥

==