पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सान्द्रचन्दननिस्यन्दपङ्किलैस्तस्य वारणैः ।

             क्षणमौर्वान्निसन्तापः प्रविश्य शमितोऽम्बुधेः ॥५॥
                        अन्वयः
      सान्द्रचन्दननिस्यन्दपङ्किलैः वारणैः प्रविश्य अम्बुधेः औौर्वान्निसन्तापः
     क्षण शमितः ।
                        व्याख्या
     सान्द्रो घनीभूतो यश्चन्दनस्य श्रीखण्डवृक्षस्य निस्यन्दः प्रस्तुतो द्रवीभूत
    पदार्थस्तेन पङ्किलैश्चन्दनवृक्षसंघर्षवशादाशरीरैर्वारणैर्गजैः प्रविश्य समुद्रमध्ये
    जलक्रीडार्थ गत्वाऽम्बुधेः समुद्रस्यौर्वोग्निरौबििग्नबडवाग्निस्तस्मात्सन्तापः पीडा
   क्षणं क्षणमात्रं शमितः शान्ति नीतः । 'औौर्वस्तु वाडवो वडवानलः' इत्यमरः ।
   तस्य शीतचन्दनस्यन्दलिप्ताङ्गषु गजेषु समुद्रं प्रविष्टेषु समुद्रस्य वडवानलतापः
   क्षणं शान्ति गत इति भावः । गम्योत्प्रेक्षालङ्कारः ।
                         भाषा
    (अपने शरीरों को चन्दनवृक्षों से रगड़ने के कारण) गाढे २ चन्दन के रस
    से लथपथ उसके हाथियों ने समुद्र में स्नानादि क्रीडा के लिए प्रबेश कर
    (चन्दन की ठण्डक से) समुद्र की वडवानल की गर्मी को थोड़े देर के लिये
    शान्त कर दिया ।
               श्रौर्वामितप्तपाथोधौ चन्दनस्यन्दवासिताः ।
                शीतोपचारसाम्राज्यं भेजुर्मलयनिम्रगाः ॥६॥
                        ऋन्वयः