पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जित्यच प्रत्ययः' । स्तम्बेरमा गजाः ‘इभः स्तबेरमः पछी' इत्यमरः । तैर्मदोन्मत्त

       गजैर्मलये मलयपर्वते न सन्ति द्रुमा अस्मिन्निति निर्दूमः न निर्दूमोऽनिर्दूमः,
       अनिर्दूमो निर्दूमः कृत इति निर्दूमीकृतस्तस्मिन् ‘अभूततद्भावे संपद्यकर्तरि
       च्विरिति च्विः प्रत्ययः । भक्षणाद्भञ्जनाच्च वृक्षरहिते कृते सति चन्दनवायूनां
       चन्दनद्रुमसम्पकच्छिीतलसुगन्धिपवनानां दक्षिणानिलानामित्यर्थः । अक्षयम-
       विनाशि चिरकालसंभवीत्यर्थः । दुर्भिक्षमभावोऽभूदित्यहं मन्ये तर्कयामि ।
       अत्रोत्प्रेक्षालङ्कारः ।
                           भाषा
      उसके मदोन्मत्त हाथियों द्वारा मलयाचल का, वृक्षों को तोड़ने और खाने से,
      वृक्ष रहित कर दिये जाने पर चिरकाल के लिये शीतल, मन्द, सुगन्ध वायु का
      (दक्षिणानिल का) अकाल पड गया होगा ऐसा मै समझता हूँ ।
                 चन्दनस्यन्दिडिएडिरच्छलेन् मलयाचलः ।
               पिएडं श्रीखएडवुनाएं परोक्षाणामिवाकरोत् ।॥४॥
                           अन्वयः
            मलयाचलः चन्दनस्यिन्दडिण्डीरच्छलेन परोक्षाणां श्रीखण्डवृक्षाणां
            पिण्डम् इव अकरोत् ।
                            व्याख्या
       मलयाचलो मलयाद्रिश्चन्दनाच्चन्दनवृक्षात्स्यन्दी प्रच्युतो डिण्डीरः फेनः
    ‘डिण्डीरोऽब्धिकफः फेनः' इत्यमरः । तस्य च्छलेन व्याजेन परोक्षाणां भग्नानामत
      एव परलोकगतानां श्रीखण्डवृक्षाणां चन्दनतरूणां पिण्डमिव श्राद्धपिण्डमिवाऽ
      करोत् कृतवान् । मृतेभ्यः सम्बन्धिभिः पिण्डदानं क्रियते तथैव मलयाचलः