पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रभज्यन्त गजैस्तस्य लीलया मलयद्रुमाः ।

                       समं केरलकान्तानां चूर्णकुन्तलवलिभिः ॥२॥
                                अन्वयः
                तस्य गजैः लीलया मलयद्रुमाः केरलकान्तानां चूएकुन्तलवल्लिभिः 
              समम् त्र्ञ्भज्यन्त | 
                                व्याख्या
             तस्य बिऋमाङ्कदेवस्य गजैर्हस्तिभिलीलया क्रीडया मलयस्य मलयाद्रेद्रुमा
           वृक्षाः केरलकान्तानां केरलदेशीयरमणीनां चूर्णकुन्तला अलकाः । ‘अलकाश्चुणृ
           कुन्तलाः' इत्यमरः । एव वल्लयो लतास्ताभिः समं सहाऽभज्यन्त भग्ना भूमौ
           निपातिता इत्यर्थः । गजसेनया पतीनां विनाशे केरलदेशीयनारीणां चूर्णकुन्तला
           देशाचाररीत्या तासां मुण्डनेन भूमौ पतिता मलयद्रुमाश्च तैर्गजैभूमौ पातिताः ।
             अत्र सहोक्तिरलङ्कारः । द्रुमाणां पाते बल्लयोऽपि पतन्त्येवेति सूच्यते ।
                                भाषा
           बिक्रमाङ्कदेव् के हाथियों ने मलयाचल के चन्दनवृक्षों के साथ ही केरल-
       देशीय स्त्रियों के केशपाश रूपी लता को भी तोड़ कर पृथ्वी पर गिरा दिया ।
        अर्थात् गज सेना से उनके पतियों का नाश हो जाने पर देशाचारानुसार उन
         स्त्रियों के विधवा हो जाने से केश भी मूंड दिये गये थे और वे पृथ्वी पर
           गिर गये ।
                   मदस्तम्बेरमैस्तस्य मलये निर्दुमोकृते ।
                   मन्ये चन्दनवायूनामभूद्दूभिंत्मक्षयम् ॥३॥