पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः सर्ग

                  कार्यतो युवराजत्वे राजसूनुरवस्थितः ।
                   स दिग्विजयमव्याज-वीरः स्मर इवाकरोत् ॥१॥
                              अन्वयः
             कार्यतः युवराजत्वे श्रवस्थितः  श्रव्याजवारः सः राजसूनुः स्मरः इव
          दिग्विजयम् अकरोत् ।
                              व्याख्या
         कार्यतस्सम्पूर्णराज्यकार्यकारित्वाद्चुवराजत्वे युवराजकार्यसम्पादनेऽवस्थितः
       प्रतिष्ठितो न तु युवराजपदे समभिषिक्तस्तत्र तु तदग्रजस्सोमदेवो नाम राजपुत्रोऽ
        भिषिक्त आसीत् । व्याजेन कपटेन वीरो व्याजवीरः स न भवतीत्यव्याजवीरो
        निष्कपटवीरः सत्यशूर इत्यर्थः । सः प्रसिद्धो राजसूनुर्नुपपुत्रः ‘आत्मजस्तनयः
        सूनुस्सुतः पुत्रः स्त्रियां त्वमी' इत्यमरः । विक्रमाङ्कदेवः स्मर इव काम इव
        ‘कामः पञ्चशरः स्मरः' इत्यमरः । दिशामाशानां ‘दिशस्तु ककुभः काष्ठा
         आशाश्च हरितश्च ताः' इत्यमरः । लक्षणया दिक्षु स्थितानां राज्ञामन्यजना
       नाञ्च विजयं जयमकरोत् । पृथ्वीस्थसकलभूपानां पराजयं विधाय तान् स्ववशे
       कृतवानित्यर्थः । राजसूनोस्स्मरेण साधमर्यावगामादुपमलन्कारः ‘साधमर्यमुपमा
       भेदे' । सर्गेऽस्मिन्ननुष्टुप् छन्दः । ‘श्लोके षष्ठं गुरुज्ञेयं सर्वत्र लघु पञ्चमम् ।
        द्विचतुः पादयोह्रस्वं सप्तमं दीर्घमन्ययोः ।।' इति लक्षणात्