पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा राजा आहबमल्लदेव सर्वत्र संग्रामोत्सवों में आज्ञाकारी विक्रमाङ्कदेव को ही जाने की आज्ञा देता था और उसके द्वारा उपार्जित यश से सुशोभित विजयरूपी अमृतों का पान किया करता था ।

तत्कुम्भिकुम्भस्थलचीनपिष्ट-विपाटलो वारिनिधिर्बभासे । श्रापूरितश्चोलवलक्षयोत्थ-रक्तापगानामिव मण्डलेन ॥६१॥

अन्वयः तत्कुम्भिकुम्भस्थलचीनपिष्टविपाटलः वारिनिधिः चोलबलक्ष्योत्थरक्तापगानां मण्डलेन आपूरितः इव बभासे ।

व्याख्या तस्य विक्रमाङ्कदेवस्य कुम्भिनो दन्तिनस्तेषां कुम्भस्थलानि गण्डस्थलानि तेषु यच्चीनपिष्टं चीनदेशभवं चूर्ण सिन्दूरं तेन विपाटलो रक्तवर्णो वारिनिधिर्जलनिधिस्समुद्रश्चोलानां चोलनृपाणां बलं सैन्यं ‘वरूथिनी बलं सैन्य चक्रतं चानीकमस्त्रियाम्' इत्यमरः । तेषां क्षयेण नाशेनोत्था जाता रक्तस्य रुधिरस्याऽऽपगा नद्यः “अपां समूहो आपं तेन गच्छतीत्यापगा' । समूहे अण्'’ । तासां मण्डलेन समूहेनाऽऽपूरितस्संवलित इव बभासे ध्रुतिं संप्राप । लोके सिन्दूरेण गजगण्डस्थलानि शोभार्थ लिप्यन्ते । उत्प्रेक्षालङ्कारः । भाषा विक्रमाङ्कदेव के हाथियों के गण्डस्थलों पर लगाये हुए सिन्दूर से सिन्दुरिया रंग का समुद्र मानों चोलदेशीय राजाओं की सेना के काटे जाने से उत्पन्न खून