पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या चालुक्यस्य चालुक्यवंशस्य रामे रामसदृशपराक्रमशालिनि तत्र कुमारे विक्रमाङ्कदेवे हरीणामश्वानां रामपक्षे कपीनां ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । वाहिन्यः सेनास्ताभिः सह तटीं समुद्रवेलामागते प्राप्ते सति पयोधिः समुद्रः प्रादुर्भवन्ति समुद्भवन्ति मौक्तिकानि मुक्ता यासु ताश्शुक्तयो मुक्तास्फोटाः मुक्तास्फोटः स्त्रियां शुक्तिः' इत्यमरः । तासां भङ्गच्या व्याजेन भयेन भीत्या दन्तान् रदान् “रदना दशना दन्ता रदाः' इत्यमरः । निश्चकर्षेव निष्कृष्टवानिव । भयभीता दन्तान् प्रदइर्य क्षमायाचनं कुर्वन्ति तथैव शुक्तिव्याजेन्न दन्तान् प्रदश्र्य भयभीतस्समुद्रः क्षमायाचनमकरोदिति भावः । सापन्हवोत्प्रेक्षाऽलङ्कारः ।

भाषा चालुक्यवंशीय राम स्वरूप उस कुमार विक्रमाङ्कदेव के , घोड़े की पलटन के साथ, राम के पक्ष में--बन्दरों की सेना के साथ, समुद्र के किनारे आने पर मोतियों को उत्पन्न करने वाली ( तट पर पड़ी हुई) सीपों के मिष से मानों समुद्र ने भय से दांत चियार दिये ।

तस्मिन्प्रविष्टे मलयाद्रिकुञ्जं तद्वाहिनीकुञ्जरकर्णतालैः । वियोगिनीनामुपतापनाय चैत्रं विना चन्दनवायुरासीत् ॥६३॥

अन्वयः तस्मिन् मलयाद्रिकुञ्जं प्रविष्टे सति तद्वाहिनीकुञ्जरकर्णेतालैः वियोगिनीनाम् उपतापनाय चैत्रं विना चन्दनवायुः आसीत् ।