पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सः यौवराज्यश्रियम् आश्रितस्य ज्येष्ठस्य, राज्ये स्थितस्य पितुः च द्वयोः अपि अखिलं कार्यम्, आदिकूर्मः भूशेषयोः भारम् इव बभार ।

व्याख्या स विक्रमाङ्कदेवो यौवराज्यश्रियं यौवराज्यलक्ष्मीमाश्रितस्य समास्थितस्य ज्यॆष्ट्स्य ज्येष्ठभ्रातुः सोमदेवस्य, राज्ये राज्यसिंहासने स्थितस्य वर्तमानस्य पितुस्तातस्य च द्वयोरुभयोरप्यखिलं समस्तं विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्' इत्यमरः । कार्य युवराजप्रयुक्तं राजप्रयुक्तञ्च कार्यमित्यर्थः ।आदिकूर्मो विष्णोः प्रथमावताररूपः कच्छपो भूः पृथ्वी शेषो नागराजोऽनन्तस्तयोर्भारमिव बभार धारयामास । यथाऽऽदिकच्छपो भुवस्तद्धारकस्य नागराजस्याऽपि भारं दधाति तथैव विक्रमाङ्कदेवः स्वज्येष्ठभ्रातुस्स्वपितुश्च कार्यभारमवहदिति भावः ।

भाषा भगवान् विष्णु का आदि अवतार कच्छप जैसे पृथ्वी और पृथ्वी का भार उठाने वाले शेषराज दोनों का बोझ उठाये रहता है उसी प्रकार विक्रमाङ्कदेव ने युवराज पद पर स्थित अपने बड़े भाई तथा राजगद्दी पर विराजित अपने पिता इन दोनों का सम्पूर्ण कार्य भार अपने ऊपर ले लिया ।

श्राज्ञापयामास च वन्दिताज्ञं तमेव सर्वत्र रणोत्सवेषु । पपौ च भूपस्तदुपार्जितानि यशोवतंसानि जयामृतानि ॥६०॥

अन्वयः सः भूपः वन्दिताज्ञं तम् एव सर्वत्र रणोत्सवेषु आज्ञापयामास,