पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवोपदेशाद्गुणदर्शनाच्च स एव चित्ते नृपतेरुवास । यथा स्तुतं रत्नपरीत्दकेण दृष्टप्रभावं च महार्हरत्नम् ॥५८॥

अन्वयः सः एव देवोपदेशात् गुशादर्शनात् च नृपतेः चित्ते उवास । यथा रत्नपरीक्षकेण स्तुतं दृष्टप्रभावं च महार्हरत्नम् ।

व्याख्या स एव विक्रमाङ्कदेव एव देवोपदेशादाऽऽकाशवाण्याः श्रवणात् गुणदर्शनाद्विक्रमाङ्कदेवे शौर्यादिगुणानामनुभवाच्च नृपते राज्ञशिचत्ते मनसि ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । उवास स्थिति चकार । यथा रत्नपरीक्षकेण वैकटिकेन स्तुतं प्रशंसितं दृष्टोऽनुभूतः प्रभावः सामथ्यं यस्य तत् दृष्टप्रभावमनुभूतसामर्थ्यञ्च महार्हरत्नं महर्घ रत्नम् । वैकटिकेन प्रशंसितमनुभूतसामथ्यं च बहुमूल्यं रत्नं राज्ञो हृदये वक्षःस्थले धार्यते तथैवाऽऽकाशवाण्या, प्रशंसितोऽनुभूतगुणश्च विक्रमाङ्कदेवो राज्ञो हृदये स्थित इति भावः ।

भाषा जौहरी द्वारा प्रशंसित और अनुभूत सामर्थ्य वाले बहुमूल्य रत्न के समान आकाशवाणी द्वारा प्रशंसित और अनुभव में आये हुए उसके गुणों से विक्रमाङ्क देव ने राजा आहवमल्ल के हृदय में स्थान प्राप्त कर लिया । अर्थात् जिस प्रकार जौहरी द्वारा प्रशंसित और अनुभव में आए हुए उसके सामथ्र्य से बहुमूल्य रत्न को राजा हृदय पर धारण कर लेता है वैसे ही आकाशवाणी से प्रशंसित और अनुभव में आए हुए उसके गुणों से विक्रमाङ्क देव ने राजा के हृदय में स्थान प्राप्त कर लिया ।