पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या चन्द्रमौलिः शशिशेखरः शिवस्वयमेवाऽम्लाना निष्कलङ्का कीर्तिर्यशो यस्य तस्य मे ममाऽभिवाच्छितमीप्सितं समाधास्यति पूरयिष्यतीतीत्थं विचार्य निश्चित्य सः प्रसिद्ध उर्व्या वसुंधरायाः ‘सर्वसहा वसुमती वसुधोर्वी वसुन्धरा' इत्यमरः । पतिः स्वमी राजाऽहवमल्लदेवः सुतेन पुत्रेणोपदिष्टं संमन्त्रितं सर्व पूर्ण कार्य यौवराज्यप्रदानकार्यमन्वतिष्ठच्चकार ।

                      भाषा

चन्द्रशेखर भगवान् शंकर, स्वयं ही, निष्कलङ्कः कीर्तिवाले मेरी अभिप्ट सिद्धि करेंगे, ऐसा विचार करके उस राजा आहवमल्लदेव ने ,पुत्र द्वारा कयित, यौवराज्य प्रदान रूप कार्य को पूर्णता से सम्पन्न किया ।

ज्येष्ठे कृतेऽपि प्रतिपत्तिपात्रे तमेव लक्ष्मीरनुमन्यते स्म । पूरेण निम्ने निहिताऽपि सिन्धु-रपेक्षते सागरमार्गमेव ॥५७॥

                     अन्वयः

ज्येष्ठ प्रतिपत्तिपात्रे कृते श्रपि लक्ष्मीः तम् एव श्रनुमन्यते स्म । पूरेण निम्ने निहिता श्रपि सिन्धुः सागरमार्गम् एव श्रपेक्षते ।

                     व्याख्या

ज्येष्ठे ज्येष्ठभ्रातरि सोमदेवे प्रतिपत्तिपात्रे यौवराज्यदानपात्रे कृतेऽपि सम्पा दितेऽपि लक्ष्मी राज्यश्रीस्तमेव विक्रमाङ्कदेवमेवाऽनुमन्यते स्म तस्मिन्नेव सन्मानं प्रणयिताञ्च प्रदर्शयति स्मेति भावः । पूरेण जलप्रवाहेण निम्ने नीचस्थाने गर्ते वा निहिता प्रस्थापिताऽपि सिन्धुर्नदी सागरस्य समुद्रस्य मार्गमेव पन्थानमेवाऽपेक्षते