सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारः पितुः इति वाक्यम् श्रादरेण श्रुत्वा विह्सन् (सन्) भूयः जगाद । श्रयं तातस्य दुराग्रहः मद्भाग्यदोषेण मत्कीर्तिकलङ्कहेतुः (श्रस्ति)

                    व्याख्या

कुमारो राजकुमारो विक्रमाङ्कदेवः पितुर्जनकस्याऽऽहवमल्लदेवस्येतीत्थं वाक्यं वचनमादरेण समादरेण श्रुत्वा निशम्य विहसन् हास्यं कुर्वन्सन् भूयः पुनरपि जगादोक्तवान् । अयं पूर्वोक्तः तातस्य जनकस्य भवतो दुराग्रहो दुरभिनिवेशो मह्यं राज्यलक्ष्मीसमर्पणरूपाभिनिवेशो मम भाग्यस्य दिष्टस्य ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । दोषेण विपर्यासेन मम कीर्तेर्यशसः कलङ्कस्य मलिनीकरणस्य हेतुः कारणमस्ति । सत्यपि ज्येष्ठे भ्रातरि मम दुर्भाग्यजनितेन भवतो दुराग्रहेण मे यौवराज्यग्रहणं मत्कीर्तिमलिनीकरणकारणमेव भविष्यतीति भावः ।

                     भाषा

राजा की उपर्युक्त बातों को आदर पूर्वक सुनकर राजकुमार विक्रमाङ्कदेव ने हँसते हुए फिर से कहा कि यह पिता जी का दुराग्रह, मेरे दुर्भाग्य से, मेरी कीर्ति में कलङ्क लगने का कारण है । यदि ग्रहास्तस्य न राज्यदूताः कारुण्यशून्यः शशिशेखरो वा। तैरेव तातो भविता कृतार्थ-स्तद्वार्यतां कीर्तिविपर्ययो मे ॥५३॥

                    अन्वयः

यदि तस्य ग्रहाः राज्यदूताः न, वा शशिशेखरः कारुण्यशून्यः (तथापि) तैः एव तातः कृतार्थः भविता । तत् मे कीर्तिविपर्ययः वार्यताम् ।