पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राज्यसुखभाग न ददाति चैदिति भावः । तथापि तैरेव ग्रहे राज्यसुखभोगासं सूचकै रेव तातः पिता भवान् कृतार्थः कृतकार्यस्सफलमनोरथ इत्यर्थः । भविता भविष्यति । तत्तस्मात्कारणान्मे मम कीर्तिविपर्ययो दुर्यशो वार्यतामपयशो न विधातव्यमित्यर्थः ।

                  भाषा

यद्यपि सोमदेव के ग्रह उसके राज्योपभोग सूचक नहीं है या यों कहें कि भगवान् शंकर की उसपर दया नहीं है । तो भी उन्हीं ग्रहों से आप की मनोरथ सिद्धि होगी । इसलिये मेरे अपयश को न होने दीजिये ।

श्रशक्तिरस्यास्ति न दिग्जयेषु यस्यानुजोऽहं शिरसा धृताज्ञः । स्थानस्थ एवाद्भुतकार्यकारी बिभर्तु रक्षामणिना समत्वम् ॥५४॥

                 अन्वयः

यस्य शिरसा धृताज्ञः श्रहम् अनुजः श्रस्य दिग्जयेषु श्रशक्तिः न श्रस्तूि। स्थानस्थः एव श्रद्भुतकर्मकारी (सन्) रक्षामणिना समत्वं बिभर्तु ।

                 व्याख्या

यस्य सोमदेवस्य शिरसा नतमस्तकेन धृता संश्रिता आज्ञाऽऽदेशो येन सोऽह- मनुजः कनीयान्भ्राताऽस्मि । अस्य मम भ्रातुस्सोमदेवस्य विशां जयो विजय स्तेषु दिग्विजयकर्मण्यशक्तिरसामथ्र्य नाऽस्ति न संभवति । सः स्थाने तिष्ठतीति स्थानस्थः स्वस्थाने स्थित एवाऽद्भुतान्याश्चर्यकराणि कर्माणि करोतीत्यद्भुत- कर्मकारी सर्वसाधारणजनासाध्याश्चर्यजनककृत्यसंसाधकस्सन् रक्षामणिना सर्व