पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्राज्यलक्ष्म्याः साम्राज्यश्रियो दयितं वल्लभं ‘दयितं वल्लभं प्रियम्' इत्यमरः । जगादोवाच कथितवानित्यर्थः । लोकैर्जनैः स्तुतां प्रशशंसितां जनप्रसिद्धामित्यर्थः । मे मम बहुपुत्रतामनेकतनयत्वं तु परेण त्वदतिरिक्तेन पुत्रद्वयेन व्यतनोत् कृतवान् ।

भाषा

भगवान् शङ्कर ने भी तुम्हीं को साम्राज्यलक्ष्मी का प्रिय बताया था । संसार में प्रशंसित अनेक पुत्रवत्ता को शंकर ने मुझे अन्य दो पुत्रों को देकर पूर्ण कर दिया ।

श्रन्व्यः

तन्मे प्रमाणीकुरु वत्स वाक्यं चालुक्यलक्ष्मीचिरमुन्नतास्तु । निर्मत्सराः चोणिभृतः स्तुवन्तु ममाकलङ्क गुणपक्षपातम् स्तुवन्तु ॥५१॥

व्याख्या

हे वत्स ! तत् मे वाक्यं प्रमाणीकुरु । चालुक्यलक्ष्मीः चिरम् उन्नता अस्तु । निर्मत्सराः क्षेोणिभृतः मम प्रकलङ्क गुणपक्षपातं स्तुवन्तु । हे वत्स पुत्र तत्तस्मात्कारणान्मे मम वाक्यं वचनं प्रमाणीकुरु स्वीकुरुष्व, यौवराज्यं गृहाणेत्यर्थः । चालुक्यवंशस्य लक्ष्मी राज्यश्रीश्चिरं चिरकाल- मुन्नता वृद्धिमभ्युपेताऽस्तु । मत्सरेणाऽन्यशुभद्वेषेण परसम्पत्यसहनेनेत्यर्थः । 'मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु' इत्यमरः । रहिता हीनाः क्षोणिभृतो राजानो ममाऽकलङ्कं दोषरहितं गुणेषु शौर्यादिषु पक्षपातं गुणैकरागमित्यर्थः । स्तुवन्तु प्रशंसन्तु ।