पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत् रामस्य पित्रा आत्मराज्ये क्रमं समुलाय भरतः अभिषित्त: तेन उत्थिता स्रीजितः इति तस्य प्रकीर्तिः अद्य अपि दिगन्तरेषु अस्ति । व्याख्या यत् रामस्य पित्रा दशरथेनाऽऽत्मनः स्वस्य राज्ये क्रमं नियमोचितपरिपाटी क्रमं समुल्लङधयाऽतिक्रम्य भरतः स्वकनीयान्पुत्रोऽभिषिक्तोऽभिषेकतिलकाञ्चितः कृतस्तेनाऽनचितकार्येणोत्थिता समुत्पन्ना स्त्रिया भार्यया जितो वशीकृत इति तस्याऽकीर्तिरपयशोऽद्याप्यद्यावधि दिगन्तरेषु सर्वदिक्ष्वस्ति विद्यते । भाषा चूंकि रामजी के पिता दशरथ राजा ने कुलपरम्परागत क्रम का उल्लंघन कर बड़े भाई के रहते हुए छोटे भाई, भरत का राज्याभिषेक किया, इस अनु चित कार्य से उत्पन्न, स्त्री का वशीभूत, ऐसी उसकी अपकीर्ति अभी भी सब दिशाओं में अर्थात् सर्वत्र फैली हुई है । तदेष विश्राम्यतु कुन्तलेन्द्र यशोविरोधी मयि पक्षपातः । न किंसमालोचयतिक्षितीन्दु-रायासशून्यं मम राज्यसौख्यम् ।॥४१॥ अन्वयः हे कुन्तलेन्द्र । तत् एषः मयि यशोविरोधी पक्षपातः विश्राम्यतु । क्षितीन्दुः मम आयासशून्यं राज्यसौख्यं किं न समालोचयति । व्याख्या हे कुन्तलेन्द्र ! कुन्तलदेशाधिप ! तत्तस्मात्कारणादेष मयि मत्सम्बन्धे यशसः कीर्तेविरोधी प्रतिबन्धको दृष्कीर्तिजनकः पक्षपातो विश्राम्यत्त विश्रान्तिमेत