पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुत्राद्वचः श्रोत्रपवित्रमेवं श्रुत्वा चमत्कारमगान्नरेन्द्रः । इयं हि लक्ष्मीर्धुरि पांसुलानां केषां न चेतः कलुषीकरोति ॥४२॥ अन्वयः नरेन्द्रः पुत्रात् एवं श्रोत्रपवित्रं वचः श्रुत्वा चमत्कारम् अगात् । हि पांसुलानां धुरि (स्थिता) इयं लक्ष्मीः केषां चेतः न कलुषीकरोति । व्याख्या नरेन्द्रो राजाऽऽहवमल्लदेवः पुत्रात्सूनोर्विक्रमाङ्कदेवादेवमेवम्भूतम् श्रोत्रपवित्रं कर्णपूतं कर्णसुखदायकमित्यर्थः । वचो वाणीं श्रुत्वा निशम्य चमत्कारमाश्चर्य मगात्प्राप्तः आश्चर्यचकितो बभूवेत्यर्थः । हि यस्मात्कारणात् पांसुलानां स्वैरि णीनां धुरि अग्रभागे स्थितेयं लक्ष्मीः श्रीः सम्पत्तिरित्यर्थः । केषां पुरुषाणां चेतो मनः ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । न कलुषी करोति न मलिनीकरोति । अपि तु लक्ष्मीः सर्वानेव सन्मार्गाच्यावयतीति भावः । भाषा इस प्रकार पुत्र की कर्ण को पवित्र करने वाली अर्थात् कान को अच्छी लगने वाली वाणी को सुनकर राजा को आश्चर्य हुआ । । क्यों कि स्वेच्छा चारिणियों में अग्रणी लक्ष्मी किनके चित्तों को मलिन नहीं करदेती । अर्थात् लक्ष्मी की प्राप्ति में सभी मनुष्यों का मन कलुषित हो जाता है । । सस्नेहमङ्गे विनिवेश्य चैनमुवाच रोमाश्वतरङ्गिताङ्गः । क्षिपन्निवात्युज्ज्वलदन्तकान्त्या प्रसादमुक्तावलिमस्य कण्ठं ॥४३॥