पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या

ज्येष्ठं भ्रातरं सोमदेवं परिम्लानं क्रमप्राप्तराज्यलक्ष्मीपरिग्रहाप्राणत्या मलिनं मुखं वदनं यस्य तं विधाय कृत्वाऽहं लक्ष्म्याः प्रणयः स्नेहस्तस्मिननुन्मुखः प्रवण: परायणो वा भवामि चेत् तर्हि अन्यायेऽन्याययुक्तकायें परायणो लग्नस्तेन मया विक्रमाङ्कदेवेनैव गोत्रे विशुद्धचालुक्यवंशे कलङ्कः कालुष्यं लिखितः सम्पादितः । किमन्यदन्यायकार्यम् ? अन्यस्याऽन्यायकार्यस्याऽन्वेषणप्रयासो व्यर्थ एवेति भावः ।

भाषा

यदि मैं अपने बड़े भाई सोमदेव को क्रमप्राप्त राज्यलक्ष्मी के न प्राप्त होने से उदास बनाकर स्वयं लक्ष्मी के प्रेम में तत्पर हो जाऊँ, तो अन्याय युक्त कार्य करने में तत्पर, मैंने ही इस शुद्ध चालुक्य वंश में कलङ्क लगाया । और क्या अन्याय का कार्य हो सकता है ?

तातश्चिरं राज्यमलङ्करोतु ज्येष्ठो ममारोहतु यौवराज्यम् ।
सलीलमाक्रान्तदिगन्तरोऽहं द्वयोः पदातित्रतमुद्वहामि ॥३९ ।।

अन्वयः

तातः चिरं राज्यम् अलङ्करोतु, मम ज्येष्ठः यौवराज्यम् आरोहतु, अहं सलीलम् आक्रान्तदिगन्तरः सन् द्वयोः पदातिव्रतम् उद्वहामि ।

व्यान्य

तातः पिता चिरं चिराय ‘चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः इत्यमरः । राज्यमलङ्करोतु विभूषयतु । मम ज्येष्ठो ज्येष्ठभ्राता सोमदेवो यौवराज्यं युवराजपदमारोहतु अधितिष्ठतु । अहं लीलया सहितं सलीलं सहेलं