पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्ष्म्याः करं ग्राहयितुं तदादौ तातस्य योग्यः स्वयमग्रजो मे । कार्य विपर्यायसमलीमसेन न मे नृपश्रीपरिरम्भणेन ॥३७॥ अन्वयः तूत् आदौ मे अग्रजः तातस्य लक्ष्म्याः करं ग्राहयितुं स्वयं योग्यः । विपर्यासमलीमसेन नृपश्रीपरिरम्भणेन मे न कार्यम् । व्याख्या तत्तस्मात्कारणात् धर्मानुकूलमर्यादानुरोधात् मे ममाऽग्रजो ज्येष्ठभ्राता तातस्य पितुस्तव लक्ष्म्याः श्रियः करं हस्तं ग्राहयितुं तातरूपप्रयोजककर्तृक ज्येष्ठभ्रातृप्रयोज्यकर्तृकलक्ष्मीसम्बन्धिकरग्रहणं सम्पादयितुं स्वयमात्मना योग्य स्समर्थः । विपर्यासेन प्रातिकूल्येन वैपरीत्येन वा ‘स्याद्वयत्यासो विपर्यासो व्यत्ययश्च विपर्यये' इत्यमरः । मलीमसेन कलङ्कितेन ‘मलीमसं तु मलिनं कञ्चरं मलदूषितम्' इत्यमरः । नृपश्रियो राजलक्ष्म्याः परिरम्भणेन समालिङ्गनेन ग्रहणेनेत्यर्थः । मे मम न कार्य न किंचित्प्रयोजनम् । भाषा इसलिये पहिले मेरे ज्येष्ठ भ्राता स्वयं आप के राजश्री का हाथ पकड़वाने के योग्य हैं। क्रमराहित्य या प्रतिकूलता के कलङ्क से कलङ्कित राजलक्ष्मी को स्वीकार करने से मुझे कोई प्रयोजन नहीं है । ज्येष्ठं परिम्लानमुखं विधाय भवामि लक्ष्मीप्रणयोन्मुखश्वेत् । किमन्यदन्यायपरायणेन मयैव गोत्रे लिखितः कलङ्कः ॥३८॥