पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या त्वमङ्गीकृतं परिगृहीतं यौवराज्यं युवराजकर्म येन स एवम्भूतस्सन् जगतो भुवनस्य ‘विष्टपं भुवनं जगत्' इत्यमरः । रक्षणं. पालनं तस्य यामिकत्वं प्रहरित्वं न धत्से न. वहसि चेत् मौव्य ज्याया रवेण नादेनाऽऽपूरितानि दिशां मुखानि येन स तस्य मद्भुजस्य मम बाहोः “भुज बाहु प्रवेष्टो दोः' इत्यमरः । क्लान्तिः परिश्रान्तिः कथं केन प्रकारेण शाम्यतु शान्तिमेतु । मदुपार्जितस्य रक्षणे यदि त्वं दीक्षितो न भविष्यसि तर्हि मत्कठोरपरिश्रमस्य साफल्यं कुत इति भावः । भाषा अगर तुम युवराज पद को स्वीकार कर जगत् की रक्षा के लिये पहरेदारी नहीं करोगे तो प्रत्यञ्चा के शब्दों से सब दिशाओं को भर देने वाली अर्थात् गुंजाने वाली मेरी इस भुजा की थकावट कैसे दूर होगी । अर्थात् मेरी जीती हुई पृथ्वी के यदि तुम पहरे दार न बनोगे तो मेरा इस समस्त पृथ्वी को जीत कर अपने अधीन करने का कठोर परिश्रम कैसे सफल होगा । आकण् सखेद-मित्थं वचः प्रत्यवदत्कुमारः । सरस्वतीलोलदुकूलकान्तां प्रकाशयन्दन्तमयूखलेखाम् ॥३३॥ कुमारः कर्णाटपतेः इत्थं सखेदं वचः आकण्र्य सरस्वतीलोलदु कूलकान्तां दन्तमयूखलेखां प्रकाशयन् प्रत्यवदत् । कुमारो राजकुमारः कर्णाटपतेर्दक्षिण-भारतस्थितकर्णाटकदेशाधिपतेराहव मल्लदेवस्येत्थमेवभ्भूतं खेदेन दुःखेन सहितं युक्तं खेदप्रकाशकं वचो वाणीमाकण्र्य