सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदीयदन्तच्छदजन्मनेव रागेण चेतः परिपूर्णमासीत् ॥१२॥

                         अन्वयः
   प्रतिक्षणं तन्मुखचुम्बनानि वितन्वतः कुन्तलपार्थिवस्य चेतः तदीयदन्त-

च्छदजन्मना रागेण इव परिपूर्णम् आसीत् ।

                        याख्या
           प्रतिक्षणं निरन्तरं तस्य बालस्य मुखस्याऽऽननस्य चुम्बनानि वितन्वतो

विदधतः कुन्तलस्य कुन्तलदेशस्य पार्थिवो राजा तस्य चेतो मानसं दन्ताश्च्छाद्यन्ते तिरोधीयन्तेऽनेनेति दन्तच्छदोऽधरः ‘ओोष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । तस्माज्जन्म यस्य स तेन बालाधरस्थितेन रागेणेवाऽऽरुणवर्णेनेव मानसपक्षे प्रेम्णा परिपूर्ण पूरितं बभूव ।

                         भाषा
   क्षण क्षण में उस बालक के मुख को चूमने में प्रवृत्त उस कुन्तलदेश के

राजा का हृदय मानो उस बालक के अधरोष्ठ से उत्पन्न होने वाले राग (लालिमा) से लाल हो गया था या राग (प्रेम) से भर गया था ।

    मुखेन्दुसञ्चारकृताभिलाष-कुरङ्गभीत्यर्थमिवार्पितेन ।
    कण्ठावसत्तेन स राजसूनुरराजत व्याघ्रनखाडुरेण ॥१३॥
                         अन्वयः
   सः राजसूनुः मुखेन्दुसञ्चारकृताभिलाषकुरङ्गभीत्यर्थम् इव अर्पितेन

कण्ठावसत्तेन व्याघ्रनखाङ्करेण अराजत ।