पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वीयावयवेभ्यः संगलितैरध:पतितैः परागैर्धूलिभिर्जनेश्वरस्य मनसो हृदयस्य कार्मणं मूलौषधिद्वारा वशक्रिया ‘मूलकर्म तु कार्मणम्' इत्यमरः । तत्कृते यच्चूर्णमोषधिचूर्ण तस्य योगं योजनां चक्रे विहितवान् । कुमाराङ्गगलित- धूलिभिर्तृपस्य प्रेमपूरितं हृदयं वशीकृतमिव संजातमिति भावः । अत्र निदशनालश् ।

                          भाषा
      मिट्टी में खेलने से धूल से भरे शरीर वाला अतएव कुछ सफेद वर्ण का

दिखलाई पड़ने वाला वह बालक, राजा की गोद में बैठ कर अपने शरीर से झड़ी हुई धूलि से मानो राजा के मन को वशीकरण करने का औषधिचूर्ण प्रयोग

करता था ।
      
     राज्ञां प्रणामाञ्जलिसम्पुटेषु किमप्यवज्ञामुकुलीकृताक्षः ।
    तस्यैकहस्ताम्बुरुहप्रणामे कृतार्थमात्मानममंस्त देवः ॥११॥

.

                         अन्वयः
      राज्ञां प्रणामाञ्जलिसम्पुटेषु किमपि अवज्ञामुकुलीकृताक्षः देवः तस्य
एकहस्ताम्बुरुहप्रणामे आत्मानं कृतार्थम् अमंस्त ।
                       व्याख्या
           राज्ञां सामन्तभूपानां प्रणामार्थ विहितमञ्जलिसम्पुटं तेषु सत्सु, द्वाभ्यां

युताभ्यां कराभ्यां सर्वे राजभिर्नमस्कारे कृते सतीति भावः । किमप्यनिर्वचनीय- प्रकारेण हेलयेत्यर्थः । अवज्ञयोपेक्षया रीढ़ावमाननावज्ञावहेलनमसूक्षणम् इत्यमरः । भुकुलीकृते ‘अमुकुलो मुकलः कृतः इति मुकुलीकृतः’ ‘अभूततद्भावैच्विः ।