पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुष्टिप्रविष्टारुणरलदीप-प्रभालता तस्य समुल्लसन्ती । विपक्षकण्ठचतजानुलिप्ता कृपाणलेखा सहजेव रेजे ॥५॥

            ज्ञन्वयः

तस्य मुष्टिप्रविष्टारुणरत्रदीपप्रभालता समुलसन्ती सती विपक्षकण्ठ क्षतजानुलिप्ता सहजा कृपाण्लेखा इव रेजे ।

             न्याख्या
तस्य बालकस्य मुष्ट्योः प्रविष्टा प्राप्ता याsरुणा रक्तवर्णा रत्नदीपानां

प्रभारूपिणी लता कान्तिवल्ली सा समुल्लसन्ती सुशोभिता सती विपक्षाणां शत्रूणां कण्ठास्तेषां क्षतजं रुधिरं तेनाऽनुलिप्ताऽनुरञ्जिता सहजा सहैवोत्पन्ना स्वाभाविकी जन्मसिद्धा कृपाणलेखेव खङ्गलेखेव रेजे समलङकृताऽऽसीत् । बालकमुष्टि प्रविष्टरत्नदीपरक्तवर्णकान्तिः शात्रुकण्ठरुधिरानुलिप्तसहजकृपाणलेखेव शुशुभ इति भावः ।

              भाषा
 उस बालक की मुट्ठी में प्रवृष्ट रत्नदीप की लाल रंग की कान्ति, शत्रुओं के कटे हुए गलों के खून से सनी, जन्म सिद्ध, साथ ही में उत्पन्न तलवार की धार के ऐसी शोभित होती थी ।

त्यक्त्वोपविष्टान्यदसौ कुमारः समुत्थितानां सविधे जगाम । आगामि तेनाधिकमुन्नतात्मा नीचेषु वैमुख्यमिवावश्वचे ॥६॥