पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वस्तुषु गुणिनो विहायोपभोगे प्रवृत्तो भविष्यामीति सूचयन्निव गुणिनं मुक्ताहारं करेण धृत्वा स्तनपानरूपोपभोगे प्रवृत्त इति भावः । अत्रोत्प्रेक्षालङ्कारः ।

                  भाषा

यह बालक अपनी माता के मोती के हार को अर्थात् गुणी को अपने कोमल पत्ते के ऐसे सुकुमार हाथ से पकड़ कर स्तनपान करता हुआ मानों अपने स्वभाव को प्रकट करता था कि उसके उपभोगों में गुणीलोग कभी भी छूट नहीं सकते अर्थात् वह गुणियों को अपने उपभोगों में सदैव साथ रक्खेगा । (गुण शब्द का अर्थ डोरा होने से डोरे में परोया मोती का हार भी गुणी कहा जा सकता है ।)

    मातृस्तनोत्सङ्ग-विलासहार-प्रभा प्रविश्येव विनिःसरन्ती ।
    तस्यानिमित्तस्मितचन्द्रिकाभू-न्नरेन्द्रनेत्रोत्सववैजयन्ती ॥४॥
                 अन्वयः

तस्य मातृस्तनोत्सङ्गविलासहारप्रभा प्रविश्य विनिःसरन्ती इव अनि मित्तस्मितचन्द्रिका नरेन्द्रनेत्रोत्सववैजयन्ती अभूत् ।

                 व्याख्या

तस्य बालकस्य मातुः स्तनौ कुचों मातृस्तन्नों तयोरुत्सङ्ग मध्ये विलासहारो विलासार्थ धृतो मुक्ताहारस्तस्य प्रभा कान्तिबलि प्रविश्याऽभ्यन्तरं गत्वा पुनः विनिस्सरन्तीव बहिरागतेव नास्ति निमित्तं कारणं यस्मिस्तत् स्मितमीषद्धास एव चन्द्रिका ज्योत्स्ना ‘चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । चन्द्रप्रकाश इत्यर्थः । नरेन्द्रस्य राज्ञो नेत्रोत्सवस्य नयनानन्दस्य ‘लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । वैजयन्ती विज्ञापयित्री पताका तत्स्वरूपाऽभूत् ।