पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेन साम्राज्यलक्ष्मीः विक्रमेण इव रराज ।

                             व्याख्या

चालुक्यस्य चालुक्यवंशस्य विभूषणमलङ्काररूपस्तस्य देवस्य राज्ञ आहव मल्लदेवस्य भार्या जाया ‘भार्या जायाऽथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । धशसा कीर्त्त्या रञ्जितानि प्रसादितानि दिशामांशानां मखान्यप्रभागा: येन स: तेनाऽऽ बदाता सित्ता द्युतिः कान्तिर्यस्य तेन ध्रुवलकान्तिना ‘अवदातः सितो गौरो बलक्षो धवलोऽर्जुनः' । इत्यमरः । तेन राजकुमारेण चिक्रमेण साम्राज्यस्य सार्वभौमत्वस्य लक्ष्मीः श्रीविक्रमेण शौर्येणेव रराज शोभिताऽभूत् । अत्रोपमालङ्कारः ।

                               भाषा

जिस प्रकार साम्राज्य की लक्ष्मी (विक्रम) पराक्रम से शोभित होती है उसी प्रकार चालुक्यवंश के भूषण राजा आहवमल्लदेव की रानी सब दिशाओं के अग्र भागों को अपने यश से उज्वल करने वाले गौर बर्ण अपने पुत्र विक्रम से शोभित हुई।

अथ बाललीलां वर्णयति कवि : --

 श्रालम्ब्य हारं करपल्लवेन पयोधरं पातुमसी प्रवृत्तः ।
 भोगेष्वबाह्या गुणिनो ममेति स्वभावमात्मीयमिवाभ्यधत्त ।॥३॥
                              अन्वयः

असौ हारं करपल्लवेन आलम्ब्य पयोधरं पातुं प्रवृत्तः (सन्) मम भोगेषु गुणिनः अबाह्याः इति आत्मीयं स्वभावम् अभ्यधत्त इव ।