पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम्

                         तृतीयः सर्गः

अथ नवजातराजकुमारं वर्णयति कविः -- स विक्रमेणाद्भुततेजसा च चेष्टाविशेषानुमितेन बालः । श्रीविक्रमादित्य इति क्षितीन्दोरवाप विख्यातगुणः समाख्याम्।॥१॥

                            अन्वयः

स विख्यातगुणः बालः चेष्टाविशेषानुमितेन विक्रमेण अद्भुततेजसा च क्षितीन्दोः श्रीविक्रमादित्यः इति समाख्याम् अवाप ।

                             व्याख्या

सः प्रसिद्धौ विख्यातगुणः प्रसिद्धगुणो बालो बालकश्चेष्टाविशेषेणाऽऽकारेङ्गि तादिव्यवहारेणाऽनुमितो विज्ञातस्तेन विक्रमेण शौर्येणाऽद्भुततेजसाऽऽश्चप्रसिद्धी प्रतापेन च क्षितेः पृथिव्या इन्दुश्चन्द्रः (प्रजाल्हादकत्वात्) तस्मादाहवमल्लदेवनृपात् श्रीॄविक्रमादित्य इति विक्रमेण पराक्रमेण तेजसा चाऽऽदित्यस्वरूपः इति समामन्व थमिाख्यां नाम ‘आख्याव्हे अभिधानञ्च नामधेयञ्च नाम च' इत्यमरः । अवाप प्राप ।