सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पुत्रजन्मानन्तरं विधानं शास्त्रविधि वेत्ति जानातीति विधानविच्छास्त्र विधिज्ञोऽसौ प्रसिद्धोऽवनीनाथः पृथिवीपतिः समुचिते पुत्रजन्मसमयोचिते कर्मणि धार्मिककृत्ये आस्था दृढ़भक्तिः परं प्रधानं यस्य स तेन धार्मिककार्येषु दृढभक्ति परायणेन पुरोधसा पुरोहितेन ‘पुरोधास्तु पुरोहितः' इत्यमरः । कथितं सूचितं सर्व समग्रमं धर्मकृत्यं जातकर्मादिकं विधाय सम्पाद्य प्रतिसूनुस्पशत् प्रत्येकं पुत्र स्पदर्शवसरान्मुहुः पुनः पुनः ‘मुहुः पुनः पुनः शश्वदभीक्ष्णम्' इत्यमरः । महोत्सवं महवानन्दमन्वभूदनुभवविषयमकुर्वत । हि यस्मात्कारणाविहाऽस्मिन् संसारे गृहिणां गृहस्थाश्रमवासिनां जनानां गार्हस्थस्य गृहस्थधर्मस्येदं पुत्रमुखदर्शन्रू पमेव प्रधानं मुख्यं फलम् । अत्राऽर्थान्तरन्यासालङ्कारः । हरिणीच्छन्दः । “रसयुगहयैन्सा म्रौ स्लौ गो यदा हरिणी तदा । ”

                            भाषा

पुत्र जन्म होने के अनन्तर शास्त्रीय विधियों को जाननेवाले उस राजा ने श्रद्धालु कुलपुरोहित द्वारा कथित पुत्र जन्म के लिये उचित सब जातकर्म आदि धर्म कृत्यों को विधिवत् कर पुत्रदेह के प्रत्येक स्पर्श के अवसर से बार २ परम आनन्द का अनुभव किया । क्योंकि इस संसार में गृहस्थाश्रम में रहने वालों के लिये गार्हस्थ धर्म का पुत्र प्राप्ति ही मुख्य फल है । इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हणविरचिते बिक्रमाङ्कदेव-चरिते महाकाव्ये द्वितीयः सर्गः ।

     नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात्।
     भारद्वाज-बुधोत्तमात्समुदितः श्रीविश्वनाथः सुधीः ।
     चक्रे । रामकुबेरपाएडतवरात्संप्रासाहाय्यकः--
     प्टीकायुरग्मिद्ं रमाकरुणया सर्गे द्वितीये शुभे ॥