पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लाघालङ्कितपूर्वपाथिवमथ चमाभर्तुरासीद्गृहम् ॥९०॥ अन्वयः अथ क्ष्माभर्तुः गृहं चञ्चारणदीयमानकनकं संनद्धगीतध्वनि स्फूर्ज द्रगाथकलुण्ठ्यमानकरटि प्रारब्धमृतोत्सवं मङ्गलतूर्यदुन्दुभिरवैः पूर्णम् उत्तालवैतालिकश्लाघालञ्चितपूर्वपार्थिवम् आसीत् । व्याख्या अथ पुत्रोत्पत्तिवार्ताप्रसरानन्तरं क्ष्माभर्तुः पृथ्वीपतेराहवमल्लदेवस्य गृहं प्रासा दश्चञ्चद्भ्यो हर्षेण चञ्चलचित्तेभ्यश्चारणेभ्यः कुशीलवेभ्यो ‘चारणास्तु कुशी लवाः' इत्यमरः । दीयमानं वितीर्यमाणं कनकं सुवर्ण यस्मिन्तत्, संनद्धो जायमानो गीतानां स्त्रीकर्तृकगायनानां ‘सोहर इति लोके प्रसिद्धम्' ध्वनिः शब्दो यत्र तत्, स्फूर्जन्तो हर्षेण विलसन्तो गाथका गायकास्तैर्लण्ठ्यमाना हठाद्भगृह्यमाणाः करटिनो हस्तिनो यत्र तत्, प्रारब्धः समारब्धो नृत्तोत्सवो नृत्यसमारम्भो यत्र तत्, मङ्गलं मङ्गलरूपस्तूर्यदुन्दुभिरवो वाद्यविशेषशब्दस्तैः पूर्ण परिपूर्णम्, उत्ताला अत्युच्चैः शब्दायमाना वैतालिकाः स्तुतिपाठकास्तैः श्लाधया प्रशंसया लङ्गिता अतिक्रान्ता अध रीकृता इत्यर्थः । पूर्वपार्थिवाः पूर्ववर्तिनृपा यस्मिन्तदाऽऽसीत् । तादृशं गृहमासीदिति भावः । शार्दूलविक्रीडितच्छन्दः। सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् । भाषा पुत्र होने की खबर फैलने के बाद राजा के महल में अत्यन्त प्रसन्न नटों को इनाम में सोना दिया जाने लगा, सोहर का गान प्रारम्भ हो गया, हर्ष से मस्त गवैये हाथियों को जबर्दस्ती इनाम में लेने लगे, नाच आरम्भ हो गया, मङ्गलमय तुरही और दुन्दुभी का नाद छा गया और बड़े ऊँचे शब्दों में स्तुति-पाठक लोग पूर्ववर्ती राजाओं से तुलना करते हुवे, इस राजा का वर्णन अधिक बढ़ाकर करने लगे। अथ समुचिते कर्मण्यास्थापरेण पुरोधसा