पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोदों में लिया हुआ शोभित होता था । अकथयद्वनीन्दोर्नन्दनोत्पत्तिवार्ता प्रथममरवृन्दानन्दिनान्दीनिनादः । तदनु तदनुरूपोत्साहतः सुन्दरीणां त्वरितगमनलीलागद्वदो वाग्विलासः ॥८६॥ अन्वयः अमरवृन्दानन्दिनान्दीनिनादः प्रथमम् अवनीन्दोः नन्दनोत्पत्तिवार्ताम् अकथयत् । तदनु तदनुरूपोत्साहतः सुन्दरीणां त्वरितगमनलीलागद्गदः वाग्विलासः (अकथयत्) । व्याख्या अमरवृन्दानां देवसमूहानामानन्दी सुखप्रवो नान्दीनिनादो मङ्गलध्वनिः प्रथमं पूर्वमवनीन्दोराहवमल्लदेवनृपं (कर्मणि षष्ठी) नन्दनस्य पुत्रस्योत्पत्तेर्जन्मनो वार्ता वृत्तान्तं ‘वार्ता प्रवृत्तिवृत्तान्त उदन्तः' इत्यमरः । अकथयदसूचयत् । तदनु तत्पश्चात् तस्य पुत्रजन्मनोऽनुरूपो योग्यो य उत्साहो हर्षातिरेकस्तस्मात् ‘पञ्च म्यास्तसिल्’ । सुन्दरीणामन्तःपुरललन्नानां त्वरितं शीघ्रञ्च तद् गमनं तस्य लीलया विलासेन गावगदोऽविस्पष्टः कम्पमानश्च वाग्विलासः कलकलशाब्दः पुत्रोत्पत्तिवृत्तान्तं राज्ञेऽकथयत् न्यवेदयत् । अत्राऽक्रमातिशयोक्त्यलङ्कारः । मालिनीच्छन्द । “जनमयययुतेयं मालिनी भोगिलोकैः” । भाषा देवताओं की आनन्द देने वाली मङ्गलध्वनि के हौरे ने राजा को पहिले