पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समुस्थितानामूर्वस्थानां पुरुषाणां सविधे तदङ्काषु जगाम स्वेच्छया गतवान् तेन

    कारणेन नीचेषु नीचजनेष्वागामि भविष्यदधिकमनल्पं वैमुख्यं विरुद्धदिशि गतं मुखं
    यस्य स तस्य भावो वैमुख्यं नीचप्रतिकूलत्वरुचिमाचचक्ष इव जगदेवाऽसूचयदि-
     वेत्यर्थः ।    अत्रोत्प्रेक्षालङ्कारः ।
                                 भाषा
          चूंकि यह उन्नत आत्मा वाला बालक बैठे हुए मनुष्यों की गोदों को छोड़
     कर खड़े भये हुए मनुष्यों की गोदों में जाता था इससे मानों उसने प्रकट कर
    दिया कि वह भविष्य में नीचे या नीच मनुष्यों से अधिक विमुख रहेगा ।
     धात्रेयिकाया स्मितपूर्वकं य-ददत्त हुङ्कारमसौ कुमारः।
    अपूयत्तेन नृपस्य कर्णै  पेयूपगएडूषपरम्पपराभिः ॥७॥
                                 अन्वयः
        यत्   असौ कुमारः धात्रेयिकायाः स्मितपूर्वकं हुङ्कारम्   अदत्त तेन पेयूष-
   गण्डूषपरम्पराभिः नृपस्य कर्णै    अपूरयत् ।
                           व्याख्या
        यद्यस्मात्कारणादसौ पूर्वोक्तः कुमारो राजपुत्रो धात्रेयिकाया उपमातुः
   स्मितपूर्वकं सरिमतं हुङ्कारशब्दं   बालस्वाभाविकशब्दमदत्त दत्तवान् तेन
  कारणेन पेयूषस्यऽमृतस्य गण्डूषं मुखतूति: ‘गण्डूषो मुखपूतॅंl  स्याद्गजहस्ताङ्गु-
  लावपि । प्रसृत्या प्रमितेऽपिस्यात्’ इति हैमः । तेषां परम्पराभि सन्ततप्रयो-
   गैर्नुपस्य राज्ञः कणॉं  श्रोत्रेऽपूरयत् संपूरितवान् । उपमात्रे हूङ्कारदानरूपबाल-
   लीलया राजाऽऽनन्दपरिपूर्णमानसो बभूवेति भावः । स्वभावोक्तिरलङ्कारः ।