पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुरप्रसूनान्यपतन्सषट्पद-ध्वनीनि दध्वान सुरेन्द्रदुन्दुभिः । परं प्रसादं ककुभः प्रपेदिरे गुणैः कुमारस्य सहोत्थितैरिव ॥८६॥ अन्वयः सषट्पदध्वनीनेि सूरप्रसूनानि अपतन् । सुरेन्द्रदुन्दुभिः दध्वान । कुमारस्य सहोत्थितैः गुणैः ककुभः परं प्रसादं प्रपेदिरे इव । व्याख्या षट्पदानां भ्रमराणां ‘षट्पदभ्रमरालय:’ इत्यमरः । ध्वनिना शब्देन सहि तानि सषट्पदध्वनीनि सुरप्रसूनानि देवकुसुमानि ‘प्रसूनं कुसुमं सुमम्' इत्यमरः । आकाशादपतन् पुष्पवृष्टिर्बभूवेत्यर्थः । सुरेन्द्रस्य पाकशासनस्य दुन्दुभिः ढुंदुमिति शब्देन भातीति दुन्दुभिः भेरी ‘भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । बध्बान शब्दं चकार । कुमारस्य नवजातशिशोः सहोत्थितैर्जन्मना साकं समुत्पन्नर्गुणैर्द यादाक्षिण्यादिमहापुरुषगुणैः ककुभः विदाः ‘दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । प्रसादं प्रसन्नतां निर्मलत्वं वा प्रपेदिरे इव प्राप्ता इव । अत्रोत्प्रेक्षालङ्कारः । भाषा आकाश से भाँरो की गुंजार से युक्त नन्दन वन के फूलों की वृष्टि होने लगी । देवों के राजा इन्द्र का नगाड़ा बजने लगा । कुमार के साथ उत्पन्न उसके उज्वलगुणों से मानों सब दिशाएँ प्रसन्न अर्थात् उज्वल हो गई । ॐ नवप्रतापाडुरचक्रकान्तया निरन्तरात्रिकदीपसम्पदा । श्रियं जगलोचनबालचन्द्रमाः समाजहारोदयसन्ध्ययेव सः ॥८७॥ ';