पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहोदरस्थे प्रसूतिगृहमध्यस्थे जरतीपरिग्रहे वृद्धनारीसमूहे उपांशु रहः शानै रित्यर्थः । ‘विविक्तबिजनच्छन्ननिःशलाकास्तथा रहः । रहश्चोपांशु' इत्यमरः । किमपि प्रच्छन्नामुपायमालम्ब्य स्वमतस्य स्वाभिप्रायस्योपदेशिनि प्राकाश्यमातन्वति सति । अनल्पः शोको यासां तासु बहुशोकासु कीराङ्गनास्वपि झाकस्त्रीष्वपि निवासपञ्जरात् स्वनिबासस्थानभूतपिञ्जरादेव न तु बहिर्निःसृत्य तस्योपाया भावात् । वित्तीण वत्तः कर्णः श्रवणं याभिस्तासु किम्भवतीति सोत्कण्ठजिज्ञा सायां सर्वमाकर्णयन्तीषु सतीषु । (नृपतेर्नन्दनीऽजायतेति सम्बन्धः ।) अत्रा तिशयोक्त्यलङ्कारः । प्रसूतिघर में बुट्ठी स्त्रियों के धीरे धीरे अपने विचार के अनुसार कुछ उपाय बनाते रहने पर, अत्यधिक दुःखी, पिंजरे में की सुग्गियों के भी कान देकर सब सुनरंत रहने पर । (राजा को पुत्र हुआ ।) अलभ्यत प्राक्तनचक्रवर्तिना न जन्म यत्राद्भुतधान्निकेनचित्। तथाविधं लग्रमवाप्य नन्दनः शिवप्रसादानृपतेरजायत ॥८५॥ अन्वयः अद्भुतधाम्नि यत्र प्राक्तनचक्रवर्तिना केनचित् अपि जन्म न अलभ्यत तथाविधं लग्नम् अवाप्य शिवप्रसादात् नृपतेः नन्दनः अजायत । ठयष्या अद्भुतस्याऽऽश्चर्यस्य धाम स्थानं तस्मिन्नाश्चर्यसमुत्पादकवस्तूनां यस्मिन् समुद्भवो भवति तावृशे यत्र लग्ने प्राक्तनः पूर्वजातश्चासौ चक्रवर्ति: सार्वभौमश्च