पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिभुवन की राज्यश्री से सप्रेम अवलोकित होने के समान तथा चन्द्रकिरणों को जलरूप में परिवर्तित कर उस जल से स्नान किये हुए के समान, शीघ्र ही जिसकी इच्छा लता में पुत्र रूप फल का उदगम होने वाला है, ऐसा वह राजा हर्ष से फूले नहीं समाता था । अथ युग्मेन नृपवल्लभायाः सूतिकागृहप्रवेशं वर्णयति कविः भिषग्भिरापादितसर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतम् । विशारदाभिः प्रसवोचिते विधौ निरन्तरं गोत्रवधूभिरश्वितम् ॥८०॥ विवेश सुभ्ररथ सूतिकागृहं प्रधानदैवज्ञनिवेदिते दिने । समुल्लसद्धि: शकुनैः सहस्रशः समर्पयन्ती नृपतेर्महोत्सवम् ॥८१॥ अन्वयः श्प सुभ्रः प्रधानदैवज्ञनिवेदिते दिने भिषग्भिःश्पापदितसर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतं प्रसवोचिते विधौ विशारदाभिः गोत्रवधूभिः निरन्तरम् अञ्चितं सूतिकागृहं समुलसद्भिः सहस्रशः शकुनैः नृपतेः महोत्सवं समर्पयन्ती विवेश । व्याख्या अथाऽनन्तरं सुष्ठु भुृवौ यस्याः सा सुभू् राजमहिषी प्रधानैः श्रेष्ठंदैवजैभैहूर्तिकैः ‘सांवत्सरो ज्योतिषिको दैबज्ञगणकावपि । स्युमैहूर्तिकमौहूर्तज्ञानिकार्तातिका अपि' । इत्यमरः । निवेदिते कथिते दिने शुभदिवसे भिषग्भिवैधैरापादितानि सम्पादितानि सर्वाणि समग्राणि भेषजान्यौषधिद्रव्याणि यस्मिन्तत्, वितीर्णानि दत्तानि रक्षाविधये नवजातबालरक्षार्थं मण्डलानि यन्त्रविशेषाण्यक्षता अभिमन्त्रित