पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्पथ क्षितेः ईशितुः वधूः यथाक्रमं सर्वेषु पुंसवनादिकर्मसु शास्रवत्मॆना कृतेषु (सत्सु) विशेषचिह्रैः निजं समासन्नफलं न्यवेदयत् । । वयाख्या अथाऽनन्तरं क्षिते: पृथ्व्या ईशितुरीय्वरस्य राज्ञो बधूः स्त्रीः क्रममनतिक्रम्य वर्तत इति यथाक्रमं क्रमानुसारेण सर्वेषु समग्रेषु पुंसवनमादिर्येषां तानि कर्माणि संस्कारास्तेषु, पुंसवनसीमन्तोन्नयन द्वावेव संस्कारौ गर्भाधानसंस्कारानन्तरमिति बहुवचनमत्राऽनपेक्षितम् । परन्तु तान्त्रिकविधिना तृतीयोऽपि संस्कारो भवति । शास्त्रवत्र्मॆना धर्मशास्त्रप्रतिपादितमार्गेण कृतेषु सम्पादितेषु सत्सु विशेषचिन्है विशिष्टलक्षणैर्निजं स्वीयं समासत्रं निकटवतिॆॆ च तत् फलं पुत्रोत्पत्तिरूपं न्यवेदयत्। सूचितवती । भाषा त्रिलोकलक्ष्म्येव सलीलमीक्षितः कृतद्रवैश्चन्द्रकरैरिवाप्लुतः । अदूरवाच्छालतिकाफलोदयः कचिन्न माति स्म मुदा नरेश्वरः ॥७९॥ अन्वयः त्रिलोकलक्ष्म्या सलीलम् ईक्षितः इव कृतद्रवैः चन्द्रकरैः आप्लुतः इव ष्पदूरवाच्छालतिकाफलोदयः नरेश्वरः मुदा कचित् न माति स्म ।