पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रानी क्रोघ अपनी भौंएँ उठा कर शब्द करने वाले आभूषणों को भी देखती थी और तेज से अपनी जोत रूपी मस्तक को ऊपर स्थिर रखने वाले घर के दीपों से भी ईष्याॆ करती थी । अर्थात् मेरे सामने इन भूषणों की बोलने की हिम्मत कैसी और इन तेजस्वी दीयों को बिना सिर झुकाए मेरे सामने ठहरने की हिम्मत कैसी—ऐसी वीर रस की, दोहदजनित भावनाएँ उस रानी के मन में होती थीं । । इति स्फुरच्चारुविचित्रदोहदा निवेदयन्ती सुतमोजसां निधिम् । प्रतिक्षणं सा हरिणायतेक्षणा दृशोः सुधावर्तिरभून्महीभुजः ॥७७॥ अन्वयः इति स्फुरच्चारुविचित्रदोहदा सुतम् ओजसां निधिं निवेदयन्ती हरिणा यतेक्षणा सा प्रतिक्षणं महीभुजः दृशोः सुधावर्तिः अभूत् । व्याख्या इतीत्थं पूर्वोक्तरीत्या स्फुरत्प्रकाशितञ्चारुशोभनं विचित्रमसाधारणचम त्कारि दोहदं गर्भिणीच्छा 'दोहदं गभिणीच्छायाभिच्छामात्रेऽपि दोहदम्’ यस्यां सा सुतं पुत्रमोजसां बलानां ‘ओजो दीप्तौ बले' इत्यमरः । निधिं निधानं निवेदयन्ती विज्ञापयन्ती हरिण इव मृग इवाऽऽयते विस्तीणे ईक्षणे नेत्रे यस्याः सा मृगायतनेत्रा राज्ञी प्रतिक्षणं क्षणे क्षणे महीभुजो नृपस्य दृशोर्नयनयोः सुधावर्ति सुखसमर्पका पीयूषशलाकाऽभूत् । राज्ञी पीयूषशालाकावनृपस्य नेत्रयोरानन्दसमर्पकाऽभूदिति भावः । अत्र रूपकालङ्कारः । भाषा उपर्युक्त प्रकार से मनोहर और आश्ययॆजगक दोहदों से युक्त, (अतएव)