पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विन्दसंमर्दनं कारयितुमाजुहावाऽमन्त्रितवती च ।चितोद्रेकेण दिगङ्गना:स्वचरणसवाहनयोग्या निध्रारिता इति भाव: भाषा अत्यधिक मद से भरी रानी, ऊपर रहने वाली ताराओं की ओर क्रोध से लाल आँखें कर बंांर बार ताकने लगी और दिगङ्गनाओं को अपने पदकमलों को दबाने के लिए बुलाने लगी । अर्थात् गर्भ स्थित प्रतापी बालक जनित मद से तारारूपी स्त्रियाँ मेरे ऊपर कैसे गई इससे क्रोध हुआ और दिगङ्गनाएँ मेरे पैर दबाने योग्य हैं, ऐसा अभिमान हुआ । उदश्वितम्रुर्मुखराणि संततं विलोकयामास विभूषणान्यपि । अजायत स्तब्धशिरःसु तेजसा गृहप्रदीपेष्वपि बद्धमत्सरा ॥७६॥ अन्वयः उदश्वितभूः (सा) मुखराणि विभूषणानि अपि संततं विलोकयामास । तेजसा स्तब्धशिरःसु गृहप्रदीपेषु अपि बद्धमत्सरा अजायत । व्याख्या उदञ्चिते समुन्नते धूर्वोौ दृग्भ्यामूध्र्वभागौ यस्याः सा राज्ञी क्रोधभावयुक्ते त्यर्थः । मुखराणि शब्दायमानानि विभूषणान्याभूषणान्यपि संततमनारतं ‘सततेऽनारताश्रान्त संतताविरतानिशम्' इत्यमरः । विलोकयामास ददर्श । क्रोधे ध्रुवौ समुन्नते भवत इति क्रोधेन वाचालतां प्राप्तान्याभूषणान्यवलोकितवती । महान्तो वाचालत्वं नैव सहन्त इति भावः । तेजसा तेजःपुञ्जेन स्तब्धानि निश्चलानि शिरांसि ज्योतिषि येषां तेषु गृहप्रदीपेषु गृहस्थदीपेष्वपि बद्धमत्सरा