पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतः परं भविष्णुवीरपुत्रानुरूपं तस्य दोहदं वर्णयति कवि:- नृपप्रिया स्थापयितुं पदद्वयीमियेष दिक्कुञ्जरकुम्भभित्तिषु । विराय धाराजलपानलम्पटा कृपाणलेखासु मुमोच लोचने ॥७४॥ अन्वयः नृपप्रिया दिक्कुञ्जरकुम्भभित्तिषु पदद्वयीं स्थापयितुम् इयेष । विराय धाराजलपानलम्पटा कृपाणलेखासु लोचने मुमोच । याख्या नृपप्रिया राजपत्नी दिक्कुञ्जराणां दिग्दन्तिनां कुम्भा एव भित्तयः कुड्यानि ‘भित्तिः स्त्री कुड्यम्' इत्यमरः । तासु पदद्वयीं चरणयुगलं स्थापयितुं निक्षेप्तु मियेषाऽऽचकाङ्क्ष । चिराय चिरकालात् चिराय चिररात्राय चिरस्याद्याश्चि रार्थकाः' इत्यमरः । धारायाः प्रवाहस्य जलं पयस्तस्य पाने लम्पटा लालसाः युक्ता सा नृपपत्नी कृपाणानां करवालानां रेखा धारा तासु करवालधारासु लोचने नयने मुमोच प्रहितवती । अत्र खड्गधारायां जलधारात्वारोपः । भाषा रानी, दिग्गजों के गण्डस्थलरूपी दीवारों पर अपने दोनों पैर रखने की इच्छा कर लगी । चिरकाल से धार का जल पीने की लालसा रखने वाली रानी तलवारों की धारों पर अपनी आँखें डालने लगी । अर्थात् गर्भस्थित बालक में वीर रस प्रधान रहने से रानी को वीर रस का दोहद होने लगा । मुहुः प्रकोपादुपरि स्थितासु सा चकार तारास्वपि पाटले दृशौ । गुरुस्मया कारयितुं दिगङ्गनाः पदाब्जसंवाहनमाजुहाव च ॥७५॥