सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा पृथ्वी के भूषण रूप राजा की पत्नी, करधनी में जड़े हुए माणिक्यों की ज्योति से मानों उदय होने वाले सूर्य के तेज के पहिले फैले हुए प्रातः कालीन प्रकाश को धारण करती है । अर्थात् जिस प्रकार सूर्य का उदय हो कर तेज फैलने के पूर्व ही प्रकाश होने लगता है उसी प्रकार तेजस्वी पुत्र के उत्पन्न होने के पूर्व ही मानों वह करधनी में के माणिक्य का प्रकाश पड़ रहा था । क्षपामुखेषु प्रतिबिम्बितः शशी हृदि क्षमावल्लभलोलचतुषः । जगाम गर्भ दधतः सुखस्थितिं नरेन्द्रसूनोरुपधानतामिव ॥७३॥ अन्वयः श्रूपामुखेषु क्षमावलभलोलचक्षुषः हृदि प्रतिबिम्बितः शशी गर्भे सुखस्थितिं दधतः नरेन्द्रसूनोः उपधानताम् इव जगाम । व्याख्या क्षपामुखेषु प्रदोषेषु ‘प्रदोषो रजनीमुखम्' इत्यमरः । क्षमायाः पृथ्व्या वल्लभस्य प्रियस्य पृथ्वीपतेरित्यर्थः । लोलचक्षषश्चञ्चलनयनायाः कान्ताया हृदि हृदये चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । प्रतिबिम्बितः प्रतिबिम्बत्वं प्राप्तः शशी चन्द्रो गर्भ उदरे सुखेनाऽऽनन्देन स्थिति निवासं दधतः कुर्वतो नरेन्द्रसूनो राजपुत्रस्योपधानतामिवोपधीयते आरोप्यते शिरोऽत्रेत्युपधानं तस्य भावस्तामुपबर्हत्वमिव ‘उपधानं तूपबर्हः' इत्यमरः । जगाम प्राप । उपबर्हस्य सादृश्यं ययाविति । उपधानं वर्तुलाकारं लम्बाकारञ्च भवति । अत्र चन्द्र सादश्याद्वर्तलाकारस्यैवोपधानस्य ग्रहणम् । बालार्थ वर्तुलाकारमुपधानमेव लोके